________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
तृतीयः
सर्गः अजितसगरचरितम्।
॥१०१॥
828282828282828282828282828.
तदृढ़ दशयोजन्यां, सूर्यः सूर्यस्य चोपरि । भवत्यशीतियोजन्याः, प्रान्ते तुहिनदीधितिः ॥५३० ॥ ततो विंशतियोजन्यां, प्रान्ते तारा ग्रहा इति । बाहल्ये योजनशतं, ज्योतिर्लोको दशोत्तरम् ॥५३१ ॥ एकविंशैर्योजनानामत्रैकादशभिः शतैः । द्वीपस्य जम्बूद्वीपस्य, मेरुशैलमसंस्पृशत् ॥५३२ ॥ आस्थितं मण्डलिकया, दिक्षु सर्वासु सन्ततम् । ज्योतिश्चक्रं बम्भ्रमीति, ध्रुव एकस्तु निश्चलः ॥५३३ ॥ योजनानामेकादशशतैरेकादशोत्तरैः । लोकान्तमस्पृशत् तद्धि, मण्डलेनाऽवतिष्ठते ॥५३४॥ अत्र सर्वोपरि स्वातिः, सर्वेषां भरणी त्वधः । सर्वेभ्यो दक्षिणो मूलोऽभीचिः सर्वोत्तरः पुनः ॥५३५ ॥ तत्र जम्बूद्वीपेऽमुष्मिन्, द्वौ चन्द्रौ द्वौ च भास्करौ । लवणोदे च चत्वारश्चन्द्रा दिनकरास्तथा ॥५३६॥ द्वादश धातकीखण्डे, चन्द्रा द्वादश भानवः । कालोदे द्विचत्वारिंशच्चन्द्रा दिनकरास्तथा ॥५३७ ॥ द्वासप्ततिः पुष्करार्धे , चन्द्राश्च रवयोऽपि च । एवं द्वात्रिंशमिन्दूनां, शतं दिनकृतां तथा ॥५३८ ॥ एकस्यैकस्य चन्द्रस्य, जायते च परिग्रहः । अष्टाशीतिर्ग्रहाश्चैव, भान्यष्टाविंशतिस्तथा ॥५३९ ॥ षट्षष्टिश्च सहस्राणि, तथा नव शतानि च । तारकाकोटिकोटीनां, पञ्चसप्ततिरेव च ॥५४० ॥ इन्दोर्विमानं विष्कम्भा-ऽऽयामयोर्योजनस्य तु । एकषष्ट्यंशीकृतस्य, स्युः षट्पञ्चाशदंशकाः ॥५४१॥ अष्टचत्वारिंशदंशा, विमाने तु विवस्वतः ।योजनार्धं ग्रहाणां तु, भानां गव्यूतमेककम् ॥५४२॥ सर्वोत्कृष्टायुषस्तारकायाः क्रोशार्धमेव तु । सर्वजघन्यायुष्कायाः, पञ्च धन्वशतानि तु ॥५४३॥ पिण्डः सर्वत्र दैर्ध्यार्धं, मर्यक्षेत्रे भवन्ति ते । पञ्चचत्वारिंशल्लक्षयोजनप्रमिते खलु ॥५४४ ॥
१ चन्द्रः । २ परिवारः। ३ नक्षत्राणि। ४ सूर्यस्य। ५ नक्षत्राणाम्। ६ स्थूलत्वम् ।
282828282828282828282828282
ज्योतिष्काः।
॥१०१॥