________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम् ।
॥१००॥
DRURURURURURURLAUBURURLAUR8
रत्नप्रभाया उपरि, योजनानां सहस्रतः । उपरिष्टादधस्ताच्च, त्यक्त्वैकां शतयोजनीम् ॥५१५ ॥ वसन्ति योजनशतेष्वष्टस्वष्टविधाः खलु । दक्षिणोत्तरयोः श्रेण्योर्व्यन्तराणां निकायकाः ॥५१६ ॥ पिशाचव्यन्तरास्तत्र, कदम्बतरुलाञ्छनाः । भूताः सुलसवृक्षाङ्का, यक्षास्तु वटलाञ्छनाः ॥५१७ ॥ राक्षसास्तु खट्वाङ्गाङ्का, अशोकाङ्कास्तु किन्नराः। चम्पकाकाः किम्पुरुषा, नागवङ्का महोरगाः ॥५१८॥ गन्धर्वव्यन्तराश्चारुतुम्बुरुद्रुमलाञ्छनाः । तत्र काल-महाकालौ, पिशाचानामधीश्वरौ ॥५१९॥ सुरूपोऽप्रतिरूपश्च, भूतानामधिपौ पुनः । यक्षाणां पूर्णभद्रश्च, माणिभद्रश्च वासवः ॥५२०॥ राक्षसानां पुनर्भीमो, महाभीमश्च नायकः । किन्नराणामधीशौ किन्नर-किम्पुरुषौ पुनः॥५२१॥ तथा सत्पुरुष-महापुरुषौ किम्पुरुषपौ । अतिकाय-महाकायौ, महोरगपुरन्दरौ ॥५२२॥ गन्धर्वाणां प्रभुर्गीतरतिर्गीतयशा अपि । इत्थङ्कारं व्यन्तराणां, तोन्द्राः सन्ति षोडश ॥५२३ ॥ रत्नप्रभायाः प्रथमे, योजनानां शते तथा । योजनानि परित्यज्य, दशाऽधो दश चोपरि ॥५२४ ॥ सन्त्यशीतौ योजनेषु, व्यन्तराष्टनिकायकाः । तत्राऽप्रज्ञप्तिकः पञ्चप्रज्ञप्तिर्ऋषिवादितः ॥५२५ ॥ भूतवादितः क्रन्दितो, महाक्रन्दित एव च । कूष्माण्डः पवकश्चेति, तेषु द्वौ द्वौ पुरन्दरौ ॥५२६ ॥ सन्निहितः समानश्च, तथा धातृ-विधातृकौ । ऋषिश्च ऋषिपालश्च, तथेश्वर-महेश्वरौ ॥५२७॥ सुवत्सक-विशालौ च, हास-हासरती तथा । तथा श्वेत-महाश्वेतौ, पवकः पवकाधिपः ॥५२८ ॥ रत्नप्रभातलादूर्द्ध, योजनानां शतेषु च । अष्टासु दशहीनेषु, ज्योतिष्काणामधस्तलम् ॥५२९ ॥
१ नागद्रोः नागवृक्षस्य अवंचिह्नं येषां ते नागवङ्काः ।
1282828282828282828282828282
व्यन्तरा वानव्यन्तरास्तच्चिह्नानि तदिन्द्राश्च।
॥१००॥