________________
त्रिषष्टिशलाकापुरुषचरिते
| द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम् ।
॥९९॥
28282828282828282828282828
एवं च प्राक्प्राग्वलयमानोद्धर्वं क्षेप एष च । सप्तमी पृथिवीं यावद्, वलयेषु विधीयते ॥५००॥ घनाम्भोधि-महावाता-ऽल्पवातवलयानि तु । स्वस्वपृथ्वीगतोत्सेधसमोत्सेधानि सर्वतः ॥५०१ ॥ इत्थं च भूमयः सप्त, घनाम्भोध्यादिधारिताः । तास्वेव नरकावासा, भोगस्थानं कुकर्मणाम् ॥५०२॥ यातना-रुक्शरीरा-ऽऽयु-र्लेश्या-दुःखःभयादिकम् । वर्धमानं विनिश्चयमधोऽधःश्वभ्रभूमिषु ॥५०३ ॥ अथ रत्नप्रभाभूमेर्बाहल्ये जायते खलु । योजनानां लक्षमेकं, सहस्राशीतिसंयुतम् ॥५०४ ॥ त्यक्त्वा योजनसहस्रमेकमूद्धर्वमधोऽपि च । तदन्तः सन्ति भवनपतीनां भवनानि तु ॥५०५ ॥ ते च भवनपतयो, दक्षिणोत्तरयोर्दिशोः । श्रेणीद्वयेन तिष्ठन्ति, राजमार्गेऽट्टपवित् ॥५०६ ॥ तत्र चूडामणिचिह्ना, असुरा भवनाधिपाः । नागाः पुनः फणाचिह्ना, विद्युतो वज्रलाञ्छनाः ॥५०७॥ सुपर्णा गरुडचिह्ना, घटचिह्नाश्च वह्नयः । अश्वाङ्का वायवो वर्धमानाङ्काः स्तनिताः पुनः ॥५०८ ॥ मकराङ्का उदधयो, द्वीपाः केसरिलाञ्छनाः । भवन्ति दिक्कुमारास्तु, सर्वे कुञ्जरलाञ्छनाः ॥५०९॥ तत्राऽसुराणां द्वाविन्द्रौ, चमरो बलिरित्यपि । धरणो भूतानन्दश्च, नागानां तु पुरन्दरौ ॥५१०॥ इन्द्रौ विद्युत्कुमाराणां, हरिर्हरिसहस्तथा । वेणुदेवो वेणुदारी, सुपर्णानां तु वासवौ ॥५११ ॥ ईशावग्निकुमाराणामग्निशिखा-ऽग्निमाणवौ । इन्द्रौ वायुकुमाराणां, वेलम्बोऽथ प्रभञ्जनः ॥५१२॥ सुघोषोऽथ महाघोषः, स्तनितानां तु वासवौ । इन्द्रावब्धिकुमाराणां, जलकान्त-जलप्रभौ ॥५१३ ॥ पूर्णो वशिष्ठश्च द्वीपकुमाराणामधीश्वरौ । अधिपौ दिक्कमाराणाममिता-ऽमितवाहनौ ॥५१४॥
१ नरकभूमिषु। २ वर्द्धमानं सम्पुटकः । ३ मेघकुमाराः ।
28282828282828282828282828
भवनपतयस्तच्चिह्नानि तदिन्द्राश्च।
॥९९ ॥