________________
द्वितीयं पर्व
त्रिषष्टिशलाका
तृतीयः सर्गः
पुरुषचरिते
॥९८॥
अजितसगरचरितम्।
28282828282828282828282828
तत्राऽधोभागमासाद्याधोऽधःस्थाः सप्त भूमयः । यासु नारकषण्ढानां, निवासाः सन्ति भीषणाः ॥४८५ ॥ रत्नशर्करावालुकापङ्कधूमतमःप्रभाः । महातमःप्रभा चाऽऽसां, बाहल्ये लक्षयोजनी ॥ ४८६ ॥ अशीतित्रिंशदष्टाविंशतिर्विशतिस्तथा । अष्टादश षोडशाऽष्टौ, सहस्राश्च क्रमेण तु ॥ ४८७॥ रत्नप्रभाभुवोऽधोऽधः, क्रमात् पृथुतराश्च ताः । त्रिंशल्लक्षाणि नरकावासानां प्रथमावनौ ॥ ४८८ ॥ पञ्चविंशतिलक्षाणि, द्वितीयनरकावनौ । तृतीयायां पञ्चदश, तुरीयायां पुनर्दश ॥४८९ ॥ पञ्चम्यां त्रीणि पञ्चोनं, लक्षं षष्ठ्यां पुनर्भुवि । पञ्चैव नरकावासाः, सप्तम्यां नरकावनौ ॥ ४९० ॥ भुवां रत्नप्रभादीनामधस्ताच्च घनाब्धयः । मध्योत्सेधे योजनानां, सहस्राणि तु विंशतिः ॥ ४९१ ॥ तदधस्ताद् घनवाता, मध्योत्सेधे भवन्ति तु । योजनानामसङ्ख्यानि, सहस्राणि घनाब्धितः ॥ ४९२ ॥ तनुवातास्त्वसङ्ख्यानि, तानि स्युर्घनवाततः । आकाशं तनुवातेभ्योऽप्यसङ्ख्येयानि तानि च ॥ ४९३ ॥ मध्योत्सेधादमुष्मात् तु, हीयमानाः क्रमेण च । घनाम्भोध्यादयः प्रान्ते, वलयाकारधारिणः ॥ ४९४ ॥ रत्नप्रभाया मेदिन्याः, परिधिस्थितिशालिनः । घनाम्भोधिवलयस्य, विष्कम्भो योजनानि षट् ॥ ४९५ ॥ महावातस्य वलयविष्कम्भे योजनानि तु । सार्धानि चत्वारि तनुवायोः सार्धं तु योजनम् ॥ ४९६ ॥ रत्नप्रभाया वलयमानस्योपरि जायते । शर्कराया घनाम्भोधौ, त्रिभागो योजनस्य तु ॥ ४९७॥ महावाते च गव्यूतमेकं भवति निश्चितम् । गव्यूतस्य तृतीयांशस्तनुवातेऽपि वर्धते ॥ ४९८ ॥ शर्करावलयमानस्योपरि क्षेप एष च । तृतीयपृथ्वीवलयविष्कम्भेष्वपि जायते ॥ ४९९ ॥
१ जैनागमेषु नारकाणां नपुंसकत्वं स्वीकृतमित्येवं प्रयोगः । २ स्थूलत्वे । ३ रत्नप्रभावनौ ।
28282828282828282828282828
अधोलोकः।
नरका नरकावासा वलयाश्च।
॥९८॥