________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
तृतीयः
सर्गः अजितसगरचरितम् ।
॥९७॥
1282828282828282828282828282X
सुरापानसमं प्राज्ञा, मोहनीयं प्रचक्षते । यदनेन विमूढात्मा, कृत्या-ऽकृत्येषु मुह्यति ॥ ४७० ॥ तत्रापि दृष्टिमोहाख्यं, मिथ्यादृष्टिविपाककृत् । चारित्रमोहनीयं तु, विरतिप्रतिषेधकम् ॥ ४७१ ॥ नृ-तिर्यग्नारका-ऽमर्त्यभेदादायुश्चतुर्विधम् । स्वस्वजन्मनि जन्तूनां, धारकं गुप्तिसन्निभम् ॥ ४७२ ॥ गति-जात्यादिवैचित्र्यकारि चित्रकरोपमम् । नामकर्म विपाकोऽस्य, शरीरेषु शरीरिणाम् ॥ ४७३ ॥ उच्चैर्नीचैर्भवेद् गोत्रं, कर्मोच्चैर्नीचगोत्रकृत् । क्षीरभाण्ड-सुराभाण्डभेदकारि कुलालवत्॥४७४ ॥ दानादिलब्धयो येन, न फलन्ति विबाधिताः । तदन्तरायं कर्म स्याद्, भाण्डागारिकसन्निभम् ॥ ४७५ ॥ इति मूलप्रकृतीनां, विपाकांस्तान् विचिन्वतः । विपाकविचयं नाम, धर्मध्यानं प्रवर्तते ॥ ४७६ ॥ अनाद्यन्तस्य लोकस्य, स्थित्युत्पत्ति-व्ययात्मनः । आकृति चिन्तयेद् यत्र, संस्थानविचयः स तु ॥ ४७७॥ कटिस्थकरवैशाखस्थानकस्थनराकृतिः । द्रव्यैः पूर्णः स तु लोकः, स्थित्युत्पत्ति-व्ययात्मकैः ॥ ४७८ ॥ वेत्रासनसमोऽधस्तान्मध्यतो झल्लरीनिभः । अग्रे मुरजसङ्काशो लोकः स्यादेवमाकृतिः ॥ ४७९ ॥ स च त्रिजगदाकीर्णो, भुवः सप्ताऽत्र वेष्टिताः । घनाम्भोधि-घनवात-तनुवातैर्महाबलैः ॥ ४८० ॥ जगत्त्रयं त्वधस्तिर्यगूज़लोकविभेदतः । अधस्तिर्यगूद्धर्वभावो, रुचकापेक्षया पुनः ॥ ४८१ ॥ मेर्वन्तर्गोस्तनाकारचतुर्कोमप्रदेशकः । रुचकोऽधस्तादृगूर्वमेवमष्टप्रदेशकः ॥ ४८२॥ तिर्यग्लोकस्तु रुचकस्योपरिष्टादधोऽपि च । योजनानां नव नव, शतानि भवति स्फुटम् ॥ ४८३ ॥ तिर्यग्लोकस्य त्वधस्तादधोलोकः प्रतिष्ठितः । नवयोजनशत्यूनसप्तरज्जुप्रमाणकः ॥ ४८४॥
१ कारागृहसमानम्। २ कोशागारिकतुल्यम्। ३ दधिमथकस्यासनभेदः । ४ मृदङ्गसदृशः । ५ तादृक् चतुःप्रदेश इत्यर्थः ।
2828282828282828282828282828
संस्थान
विचयम्
लोकस्वरूपम्
॥९७॥