________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम्।
॥९६॥
282828282828282828282828288
यथा प्राप्तेऽपि सौराज्ये, भिक्षा भ्राम्यति बालिशः । आत्मायत्ते तथा मोक्षे, भवाय भ्रान्तवानसि ॥४५५॥ एवं राग-द्वेष- मोहैर्जायमानान् विचिन्तयेत् । यत्राऽपायांस्तदपायविचयध्यानमिष्यते ॥ ४५६ ॥ विपाकः फलमाम्नातः, कर्मणां स शुभा-ऽशुभः । द्रव्य-क्षेत्रादिसामग्या, चित्ररूपोऽनुभूयते ॥ ४५७ ॥ शुभस्तत्राङ्गना-माल्य-खाद्यादिद्रव्यभोगतः । अशुभस्त्वहि-शस्त्रा-ऽग्नि-विषादिभ्योऽनुभूयते ॥ ४५८॥ क्षेत्रे सौध-विमानोपवनादौ वसनाच्छुभः । श्मशान-जाङ्गला-ऽरण्यप्रभृतावशुभः पुनः ॥ ४५९ ॥ काले त्वशीतला-ऽनुष्णे, वसन्तादौ रतेः शुभः । उष्णे शीते ग्रीष्म-हेमन्तादौ भ्रमणतोऽशुभः॥४६०॥ मन:प्रसाद-सन्तोषादिभावेषु शुभो भवेत् । क्रोधा-ऽहङ्कार-रौद्रत्वादिभावेष्वशुभः पुनः ॥ ४६१ ॥ सुदेवत्व-भोगभूमिमनुष्यादिभवे शुभः । कुमर्त्य-तिर्यग्नरकादिभवेष्वशुभः पुनः ॥ ४६२ ॥ अपिच-उदय-क्षय-क्षयोपशमोपशमाः कर्मणां भवन्त्यत्र । द्रव्यं क्षेत्रं कालं,भावं च भवं च सम्प्राप्य॥४६३॥ इति द्रव्यादिसामग्रीयोगात् कर्माणि देहिनाम् । स्वं स्वं फलं प्रयच्छन्ति, तानि त्वष्टैव तद्यथा ॥ ४६४॥ जन्तोः सर्वज्ञरूपस्य, ज्ञानमावियते सदा । येन चक्षुः पटेनेव, ज्ञानावरणकर्म तत् ॥ ४६५ ॥ मति-श्रुता-ऽवधि-मनःपर्यायाः केवलं तथा । पञ्चाऽऽवियन्ते ज्ञानानीत्येता ज्ञानावृतेभिदः ॥४६६॥ पञ्च निद्रा दर्शनानां, चतुष्कस्याऽऽवृतिश्च या । दर्शनावरणीयस्य, विपाकः कर्मणः स तु ॥ ४६७ ॥ यथा दिदृक्षुः स्वामी स्वं, प्रतीहारनिरोधतः । न पश्यति तथाऽऽत्मापि, येन दृष्ट्यावृतिस्तु तत् ॥ ४६८॥ मधुलिप्तासिधाराग्रास्वादाभं वेद्यकर्म यत् । सुख-दुःखानुभवनस्वभावं तत् प्रकीर्तितम् ॥ ४६९ ॥
१ मूर्खः । २ कथितः। ३ सुदेवत्वे भोगस्थानभूते मनुष्यादिभवे च । इदं आर्यावृत्तम्। ४ ज्ञानावरणस्य भेदाः । ५ दर्शनावरणम् ।
282828282828282828282828288
विपाकविचयम्।
विपाकः ।
अष्टौ कर्माणि।
॥९६ ॥