________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। ९५ ।।
DX D X D X
C D G D G D G R
कर्मध्वंसः शुभध्यानात्, तच्च ध्यानं चतुर्विधम् । आज्ञा-पाय- विपाकानां, संस्थानस्य च चिन्तनात् ॥४४०॥ आज्ञा स्यादाप्तवचनं, सा द्विधैव व्यवस्थिता | आगमः प्रथमा तावद्धेतुवादोऽपरा पुनः ॥ ४४१ ॥ शब्दादेव पदार्थानां प्रतिपत्तिकृदागमः । प्रमाणान्तरसंवादाद्धेतुवादो निगद्यते ॥ ४४२ ॥ द्वयोरप्यनयोस्तुल्यं, प्रामाण्यमविगानतः । अदुष्टकारणारब्धं, प्रमाणमिति लक्षणात् ॥ ४४३ ॥ दोषा राग-द्वेष- मोहाः, सम्भवन्ति न तेऽर्हति । अदुष्टहेतुसम्भूतं, तत् प्रमाणं वचोऽर्हताम् ॥ ४४४ ॥ नय-प्रमाणसंसिद्धं, पौर्वापर्याविरोधि च । अंप्रतिक्षेप्यमपरैर्बलिष्ठैरपि शासनैः ॥ ४४५ ॥ अङ्गोपाङ्ग-प्रकीर्णादिबहुभेदापगाम्बुधि । अनेकातिशयप्राज्यसाम्राज्यश्रीविभूषितम् ॥ ४४६ ॥ सुदुर्लभं दूरभव्यैर्भव्यैस्तु सुलभं भृशम् । गणिपिटकतयोच्चैर्नित्यं स्तुत्यं नरा-ऽमरैः ॥ ४४७ ॥ इमामाज्ञां समालम्ब्य स्याद्वादन्याययोगतः । द्रव्य - पर्यायरूपेण, नित्या - ऽनित्येषु वस्तुषु ॥ ४४८ ॥ स्वरूप- पररूपाभ्यां सदसद्रुपशालिषु । यः स्थिरप्रत्ययो ध्यानं, तदाज्ञाविचयाह्वयम् ॥ ४४९ ॥ अस्पृष्टजिनमार्गाणामविज्ञातपरात्मनाम् । ॲपरामृष्टायतीनामपायाः स्युः सहस्रशः ॥ ४५० ॥ माया-मोहा - ऽन्धतमसविवशीकृतचेतसा । किं किं नाऽकारि कलुषं ?, कस्कोऽपायोऽप्यवापि न ? ॥ ४५१ ॥ यद् यद् दुःखं नारकेषु, तिर्यक्षु मनुजेषु च । मयाऽप्रापि प्रमादोऽयं, ममैव हि विचेतसः ॥ ४५२ ॥ प्राप्याऽपि परमां बोधि, मनो- वाक्कायकर्मजैः । दुश्चेष्टितैर्मयैवाऽऽत्मशिरसि ज्वालितोऽनलः ॥ ४५३ ॥ स्वाधीने मुक्तिमार्गेऽपि, कुमार्गपरिमार्गणैः । अहो ! आत्मंस्त्वयैवैष, स्वात्माऽपायेषु पातितः ॥ ४५४॥ १ प्रतिपादकः । २ अविराधितया । ३ अबाध्यम् । ४ अविचारितोत्तरकालानाम् ।
DEDEDEDEDEDEDERERERERERERI
द्वितीयं पर्व तृतीयः सर्गः
अजितसगर
चरितम् ।
चतुर्विधं
धर्मध्यानम् ।
आज्ञाविचयमपायविचयं च।
।। ९५ ।।