________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः
सर्गः
॥९४॥
अजितसगरचरितम् ।
YAXURYRERERURYAYAYAYAYAYRI
शब्द-रूप-रस-स्पर्श-गन्धाख्याः पञ्च गोचराः । भजन्ति प्रातिकूल्यं न, त्वदने तार्किका इव ॥ ४२५ ॥ त्वत्पादावृतवः सर्वे, युगपत् पर्युपासते । आकालकृतकन्दर्पसाहाय्यकभयादिव ॥ ४२६ ॥ सुगन्ध्युदकवर्षेण, दिव्यपुष्पोत्करेण च । भावित्वत्पादसंस्पर्शा, पूजयन्ति भुवं सुराः ॥ ४२७ ॥ जगत्प्रतीक्ष्य! त्वां यान्ति, पक्षिणोऽपि प्रदक्षिणाम् ।का गतिर्महतां तेषां, त्वयि ये वामवृत्तयः? ॥४२८॥ पञ्चेन्द्रियाणां दौःशील्यं, वभवेद् भवदन्तिके? । एकेन्द्रियोऽपि यन्मुञ्चत्यनिलः प्रतिकूलताम् ॥ ४२९॥ मूर्धा नमन्ति तरवस्त्वन्माहात्म्यचमत्कृताः । तत् कृतार्थं शिरस्तेषां, व्यर्थं मिथ्यादृशां पुनः ॥ ४३० ॥ जघन्यतः कोटिसङ्ख्यास्त्वां सेवन्ते सुरा-ऽसुराः । भाग्यसम्भारलभ्येऽर्थे, न मन्दा अप्युदासते ॥४३१॥ भगवन्तमिति स्तुत्वाऽपक्रम्य विनयक्रमात् । पृष्ठे मघवतस्तस्थौ, नर-नारीगणश्च सः ॥ ४३२ ॥ इत्थं समवसरणस्योद्धर्ववप्रान्तरावनौ । तस्थौ चतुर्विधः सङ्घो, ध्यानस्थ इव भक्तितः ॥ ४३३ ॥ द्वितीयवप्रमध्ये तु, भुजङ्ग-नकुलादयः । तिर्यञ्चोऽस्थुस्त्यक्तवैरा, मित्राणीव परस्परम् ॥ ४३४ ॥ तृतीयवप्रमध्ये च, स्वामिसेवार्थमेयुषाम् । सुरा-ऽसुर-मनुष्याणां, वाहनान्यवतस्थिरे ॥ ४३५ ॥ अथाऽऽयोजनगामिन्या, सर्वभाषास्पृशा गिरा । भगवानजितस्वामी, प्रारेभे धर्मदेशनाम् ॥ ४३६ ॥ असावसारः संसारः, सारबुद्धयाऽवबुध्यते । काचो वैडूर्यवृद्धयेव, धिगहो! मुग्धबुद्धिभिः ॥ ४३७ ॥ प्रतिक्षणभवैर्देहभाजां विविधकर्मभिः । संवर्ध्यते च संसारः, पादपो दोहदैरिव ॥ ४३८ ॥ कर्माभावेन संसाराभावो न्यायभवः खलु । कर्मध्वंसाय सुधिया, यतितव्यं ततः सदा ॥ ४३९ ॥
१ इन्द्रियविषयाः। २ हे जगत्पूज्य!। ३ प्रतिकूलवृत्तयः ।
2828RXRXRXR8A8282828282828A
अजितप्रभोर्देशना।
॥९४॥