________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
तृतीयः
सर्गः अजितसगरचरितम् ।
॥१३॥
282828282828282828282828282
परितश्छादयन्नुर्वीमुर्वीपतिरथ द्रुतम् । आससाद सहस्राम्रवणोपवनसन्निधिम् ॥४११ ॥
॥त्रिभिर्विशेषकम् ॥ उद्यानद्वारसौवर्णवेद्यां सगरभूपतिः । उत्ततार द्विपात् तस्मान्मानादिव महामुनिः ॥ ४१२ ॥ उज्झाञ्चकार सगरः, स्वं छत्रं चामरे अपि । अप्यन्यराज्यचिह्नानि, विनीतानां क्रमो ह्ययम् ॥ ४१३ ॥ पादाभ्यां न ह्यलञ्चक्रे, विनयादप्युपानहौ । हस्तावलम्बनमपि, वेत्रिदत्तमुपैक्षत ॥ ४१४ ॥ ततः समवसरणाभ्यणे सगरभूपतिः । पद्भ्यां चलितवान् पौरनर-नारीगणैः समम् ॥ ४१५ ॥ उदग्द्वारेण समवसरणं प्राविशत् तदा । नृपो मकरसङ्क्रान्तौ, व्योमाङ्गणमिवाय॑मा ॥ ४१६ ॥ तत्र प्रदक्षिणीकृत्य, त्रिर्नत्वा च जगद्गुरुम् । सगरः स्तोतुमारेभे, सुधामधुरया गिरा ॥ ४१७ ॥ मिथ्यादृशां युगान्तार्कः, सुदृशाममृताञ्जनम् । तिलकं तीर्थकृल्लक्ष्म्याः , पुरश्चक्रं तवैधते ॥४१८ ॥ एकोऽयमेव जगति, स्वामीत्याख्यातुमुच्छ्रिता । उच्चैरिन्द्रध्वजव्याजात्, तर्जनी जम्भविद्विषा ॥ ४१९ ॥ यत्र पादौ पदं धत्तस्तव तत्र सुरा-ऽसुराः । किरन्ति पङ्कजव्याजाच्छ्रियं पङ्कजवासिनीम् ॥ ४२० ॥ दान-शील-तपो-भावभेदाद् धर्मं चतुर्विधम् । मन्ये युगपदाख्यातुं, चतुर्वक्त्रोऽभवद् भवान् ॥ ४२१ ॥ त्वयि दोषत्रयात् त्रातुं, प्रवृत्ते भुवनत्रयीम् । प्राकारत्रितयं चक्रुस्त्रयेऽपि त्रिदिवौकसः ॥ ४२२ ॥ अधोमुखाः कण्टकाः स्युर्धात्र्यां विहरतस्तव । भवेयुः सम्मुखीनाः किं, तामसास्तिग्मरोचिषः? ।. ४२३ ॥ केश-रोम-नख-श्मश्रु, तवाऽवस्थितमित्ययम् । बाह्योऽपि योगमहिमा, नाऽऽप्तस्तीर्थकरैः परैः ॥ ४२४ ॥
नम्राणाम्। २ इन्द्रेण। ३ सूर्यस्य। ४ वृद्धिरहितम् ।
282828282828282828282828282
प्रभोर्वन्दनार्थं सगरस्य गमनम्।
॥९३॥