________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर तृतीयः सर्गः अजितसगरचरितम्।
॥९०॥
28888888888888888888888888
प्राकारे मध्यमे पूर्वोदीच्यां दिशि दिवौकसः । देवच्छन्दं विदधिरे, स्वामिविश्रामहेतवे ॥३६७ ॥ तृतीयवप्रमध्योल्, चैत्यद्वं व्यन्तरा व्यधुः । चतुर्दशधनुःशत्याऽधिकां गव्यूतिमुन्नतम् ॥२६८॥ ततः सिंहासनं देवच्छन्दकं चामरे अपि । छत्रत्रयं च रुचिरं, चक्रिरे व्यन्तरामराः ॥ ३६९ ॥ इत्थङ्कारं च समवसरणं विदधेऽमरैः । भवत्रस्तैकशरणं, हरणं निखिलापदाम् ॥३७० ॥ ततो जयजयारावकारिभिर्मागधैरिव । अमरैः कोटिसङ्ख्यातैः, परितः परिवारितः ॥ ३७१ ॥ सुरसञ्चार्यमाणेषु, सौवर्णेष्वम्बुजन्मसु । नवसु क्रमशो न्यस्य, पादाम्भोजे जगत्पतिः ॥ ३७२ ॥ प्रविश्य पूर्वद्वारेण, चैत्यवृक्षप्रदक्षिणाम् । चकाराऽऽवश्यकविधिर्यलढ्यो महतामपि ॥ ३७३ ॥ नमस्तीर्थायेति गिरा, कृत्वा तीर्थनमस्क्रियाम् । तत्र सिंहासने पूर्वाभिमखो न्यषदत् प्रभः ॥३७४॥ स्वामिनः प्रतिरूपाणि, दिक्ष्वन्यास्वपि तत्क्षणम् । विचक्रुर्व्यन्तरास्ते हि, शेषकर्माधिकारिणः ॥३७५ । स्वामिरूपानुरूपाणि, तान्यासंस्तत्प्रभावतः । तादृशि स्वामिबिम्बानि, न ते कर्तुं स्वयं क्षमाः ॥३७६ ॥ पृष्ठे भामण्डलं धर्मचक्र-शक्रध्वजौ पुरः । दिवि दुन्दुभिनादश्च, प्रादुरासंस्तदा क्षणात् ॥ ३७७ ॥ पूर्वद्वाराऽविशन् साधु-साध्वी-वैमानिकस्त्रियः । त्रिश्च प्रदक्षिणीकृत्य, नेमुस्त्रिभुवनेश्वरम् ॥३७८ ॥ पूर्वदक्षिणदिश्यासाञ्चक्रिरे तत्र साधवः । तत्पृष्ठे तस्थुरूद्धस्त, वैमानिक्योऽथ संयताः ॥ ३७९॥ अपाग्द्वारैत्य भवनेश-ज्योति-य॑न्तरस्त्रियः । प्रभुं प्रदक्षिणीकृत्योर्द्धवं नैर्ऋत्यां क्रमात् स्थिताः ॥ ३८० ॥ प्रत्यग्द्वारैत्य भवनेश-ज्योति-य॑न्तराः प्रभुम् । नत्वा प्रदक्षिणापूर्वं, वायव्ये न्यषदन् क्रमात् ॥ ३८१ ॥
१ पद्धेषु । २ साध्व्यः । ३ दक्षिणद्वारेण। ४ पश्चिमद्वारेण ।
18282828282828282828282888
भगवतो द्वादशपर्षदांच समवसरणान्तर्गमनम् ।
॥९०॥