________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम् ।
॥८९॥
2828282828282828282828282828
पुरुहतः समाहृताशेषदेवः क्षणादपि । ऋद्धया महत्या भक्त्येव, जिनेन्द्राभ्यर्णमाययौ ॥ ३५३ ॥ सर्वेऽन्येऽप्यासनकम्पाद्, विज्ञातस्वामिकेवलाः । अहम्पूर्विकयेवेयुः, सममिन्द्रा जिनान्तिके ॥३५४ ॥ क्षेत्रे योजनमात्रे च, देवा वायुकुमारकाः । अपनिन्युः शर्करादि, ते यदत्राधिकारिणः ॥३५५ ॥ तत्र गन्धाम्बुवृष्टिं च, सुरा मेघकुमारकाः । रजोमात्रप्रशमनी,शरदृष्टिनिभां व्यधुः ॥३५६॥ स्वर्ण-रत्नशिलास्तोमैर्मसृणैस्तन्महीतलम् । बबन्धुर्बन्धुरतरं, चैत्यमध्यमिवाऽमराः ॥ ३५७ ॥ स्मेराणि जानुदध्नानि, पञ्चवर्णान्यतुश्रियः । ववृषुस्तत्र पुष्पाणि, प्रत्यूषपवना इव ॥ ३५८ ॥ अन्तः कत्वा मणिस्तूपं, परितस्तमधो व्यधुः । रौप्यं भवनपतयो, वप्रं रैकेपिशीर्षकम् ॥३५९ ॥ वप्रं द्वितीयं ज्योतिष्काः, सरत्नकपिशीर्षकम् । विदधुः काञ्चनैरात्मज्योतिभिरिव पिण्डितैः ॥३६० ॥ प्राकारं चोपरितनं, वैमानिकदिवौकसः । रत्नैर्विरचयाञ्चक्रुर्माणिक्यकपिशीर्षकम् ॥३६१॥ वप्रे वप्रे च चत्वारि, जगत्यामिव जज्ञिरे । मनोविश्रामधामानि, चारुद्वाराणि तत्र च ॥३६२॥ पत्रैर्मारकतैरासन्, द्वारे द्वारे च तोरणाः । अम्बरे विचरच्चारुश्रेणीभूतशुकोपमाः ॥३६३ ॥ तोरणानुभयतश्च, कुम्भा मुखकृताम्बुजाः । न्यास्यन्त सिन्धूरभितश्चक्रा इव दिनात्यये ॥ ३६४ ॥ द्वारे द्वारेऽभवद् वापी, काञ्चनाम्भोजशालिनी । स्वच्छ-स्वादुपयःपूर्णा, मङ्गल्यकलशोपमा ॥३६५ ॥ धूपघट्यः प्रतिद्वारं, हैम्यो मुमुचिरेऽमरैः । धूपधूमैर्मारकतास्तन्वन्त्यस्तोरणानिव ॥३६६ ॥ १ स्निग्धैः । २ विकसितानि । ३ जानुप्रमाणानि । ४ ऋत्वधिष्ठायिका देव्यः । ५ मणिपीठम् ।६ सुवर्णमयकपिशीर्षकम् । ७ जम्बूद्वीपस्य दुर्गे । ८ नदीः ।
3882828282828282828282828282
समवसरणम्
॥८९॥