________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः सर्गः अजित
॥८८॥
सगर
चरितम्।
128282828282828282828282828
अथ लोभकषायस्य, किट्टीकरणतो ययौ । सूक्ष्मसम्परायं नाम, गुणस्थानं नवोत्तरम् ॥३३८॥ अनन्तवीर्यस्त्रिजगत्सर्वकर्मक्षयक्षमः । क्षीणमोहं गुणस्थानं, प्राप मोहस्य सङ्ख्यात् ॥३३९ ॥ गुणस्थानस्य चैतस्य, द्वादशस्यान्तिमे क्षणे । एकत्वश्रुतमीशोऽगाच्छुक्लध्यानं द्वितीयकम् ॥३४०॥ त्रिजगद्विषयं ध्यानेनाऽमुनाऽणौ दधौ मनः । सर्वाङ्गीणं विषं दंशै, मन्त्रेणेव जगत्प्रभुः ॥३४१॥ अपनीतेन्धनभरः, शेषस्तोकेन्धनोऽनलः । ज्वलितो निर्वाति यथा, निर्वाणं तन्मनस्तथा ॥३४२॥ ततश्च तस्मिन् ध्यानाग्नौ, दीप्यमाने जिनेशितुः । हिमानीव व्यलीयन्त, घातिकर्माणि सर्वतः ॥३४३॥ अथ पौषस्य शुक्लैकादश्यां चन्द्रेऽधिरोहिणि । स्वामिनः कृतषष्ठस्योत्पेदे केवलमुज्ज्वलम् ॥३४४॥ ईक्षाञ्चक्रे जगन्नाथस्त्रिकालविषयानपि । त्रैलोक्यवर्तिनो भावान्, करोत्सङ्गगतानिव ॥३४५ ॥ उत्पन्ने स्वामिनो ज्ञाने, स्वाम्यवज्ञाभयादिव । सौधर्माधिपतेः सद्यः, सिंहासनमकम्पत ॥३४६ ॥ तत्कारणज्ञानकृते, प्रायुत मघवाऽवधिम् । रज्जुं जलाशयपयोमानं ज्ञातुमना इव ॥३४७ ॥ स्वामिनः केवलज्ञानमुत्पन्नमिति वासवः । अज्ञासीदवधिज्ञानाद्, दीपालोकात् पदार्थवत् ॥३४८ ॥ रत्नसिंहासनं रत्नपादुके च पुरन्दरः । उज्झाञ्चकार बलवत्, स्वाम्यवज्ञाभयं सताम् ॥३४९ ॥ ददौ पदानि सप्ताऽष्टान्यर्हद्दिक्सम्मुखं हरिः । गीतार्थः शिष्य इवाऽनुज्ञापितावग्रहावनौ ॥ ३५० ॥ सव्यं किञ्चिन्न्यञ्च्य जानु, दक्षिणेन च जानुना। पाणिभ्यां शिरसा च क्ष्मां, स्पृशन्ननमदद्रिभित् ॥३५१॥ समुत्थाय व्यपक्रम्य, भूयोऽपि बलसूदनः । सिंहासनमलञ्चक्रे, गिरीन्द्रमिव केसरी ॥३५२॥
१ दशममित्यर्थः २ दंशस्थाने। ३ शान्तम्। ४ हस्तमध्यगतान्। ५-६ इन्द्रः ।
0282828282828282828282828284
अजितप्रभोः केवलोत्पत्तिः देवेन्द्राणामागमनं च।
॥८८॥