________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ९१ ॥
'DEDEDEDEDEDERERERERERERERKI
प्रविश्योदीच्यद्वारेण, सेन्द्रा वैमानिकाः प्रभुम् । नत्वा प्रदक्षिणापूर्वमैशान्यां न्यषदन् क्रमात् ॥ ३८२ ॥ नाथं भूयो नमस्कृत्य, शक्रो विरचिताञ्जलिः । भक्त्या रोमाञ्चितवपुः, स्तोतुमित्युपचक्रमे ॥ ३८३ ॥ सर्वाभिमुख्यतो नाथ!, तीर्थकृन्नामकर्मजात् । सर्वेषां सम्मुखीनस्त्वमानन्दयसि यत् प्रजाः ॥ ३८४ ॥ यद् योजनप्रमाणेऽपि, धर्मदेशनसद्मनि । सम्मान्ति कोटिशस्तिर्यग्नू - देवाः सपरिच्छदाः ॥ ३८५ ॥ तेषामेव स्वस्वभाषापरिणाममनोहरम् । अप्येकरूपं वचनं, यत् ते धर्मावबोधकृत् ॥ ३८६ ॥ साग्रेऽपि योजनशते, पूर्वोत्पन्ना गदाम्बुदाः । यदञ्जसा विलीयन्ते, त्वद्विहारानिलोर्मिभिः ॥ ३८७ ॥ नाविर्भवन्ति यद् भूमौ मूषिकाः शलभाः शुकाः । क्षणेन क्षितिपक्षिप्ता, अनीतय इवेतयः ॥ ३८८ ॥ स्त्री-क्षेत्र-पंद्रादिभवो, यद् वैराग्निः प्रशाम्यति । त्वत्कृपापुष्करावर्तवर्षादिव भुवस्तले ॥ ३८९ ॥ त्वत्प्रभावे भुवि भ्राम्यत्यशिवोच्छेदडिण्डिमे । सम्भवन्ति न यन्नाथ!, मारयो भुवनारयः ॥ ३९० ॥ कामवर्षिणि लोकानां त्वयि विश्वैकवत्सले । अतिवृष्टिरवृष्टिर्वा, भवेद् यन्नोपतापकृत् ॥ ३९१ ॥ स्वराष्ट्र-परराष्ट्रेभ्यो, यत् क्षुद्रोपद्रवा द्रुतम् । विद्रवन्ति त्वत्प्रभावात् सिंहनादादिव द्विपाः ॥ ३९२ ॥ यत् क्षीयते च दुर्भिक्षं, क्षितौ विहरति त्वयि । सर्वाद्भुतप्रभावाढ्ये, जङ्गमे कल्पपादपे ॥ ३९३ ॥ यन्मू: पश्चिमे भागे, जितमार्त्तण्डमण्डलम् । मा भूद् वपुर्दुरालोकमितीवोत्पिण्डितं महः ॥ ३९४ ॥ स एष योगसाम्राज्यमहिमा विश्वविश्रुतः । कर्मक्षयोत्थो भगवन्!, कस्य नाऽऽश्चर्यकारणम्? ॥ ३९५ ॥ अनन्तकालप्रचितमनन्तमपि सर्वथा । त्वत्तो नाऽन्यः कर्मकक्षमुन्मूलयति मूलतः ॥ ३९६ ॥
व्याधय एव मेघाः । २ क्षेत्रपाकविघ्नकरा उपद्रवाः । ३ ग्रामः । ४ व्याधयः । ५ कर्मैव कक्षं वनम् ।
REDERERERERERERERERERERERKI
8 द्वितीयं पर्व
तृतीयः
सर्गः
अजित
सगर
चरितम् ।
कर्मक्षयजातीर्थकृद
तिशया:
॥ ९१ ॥