________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम्।
॥८५ ॥
8282828282828282828282828282
दीयमानां प्रभोभिक्षां, ये प्रेक्षाञ्चक्रिरे जनाः। नीरोगास्ते समभवन्, वपुषा निर्जरा इव ॥ २९८ ॥ ब्रह्मदत्तनृपगृहाद्, भगवान् कृतपारणः । वारणः सरसः पीतपानीय इव निर्ययौ ॥२९९ ॥ मा स्म कश्चिदतिक्रामत्, पदानीति प्रभोः पदे । ब्रह्मदत्तनृपस्तत्र, पीठं रत्नैरकारयत् ॥ ३००॥ ब्रह्मदत्तनृपः पीठं, त्रिसन्ध्यं कुसुमादिभिः । पूजयामास तत्रस्थं, मन्यमानो जिनेश्वरम् ॥ ३०१॥ चर्चा-कुसुम-वस्त्राद्यैः, पीठे तस्मिन्नपूजिते । आत्तवेल इव स्वामिन्यभुक्ते न ह्यभुक्त च ॥३०२॥ भगवानप्रतिबद्धगमनः पवमानवत् । अखण्डितेर्यासमितिर्विजहार वसुन्धराम् ॥३०३॥ प्रतिलाभ्यमानः क्वचित्, प्रासुकैः पायसादिभिः । चर्च्यमानपदाम्भोजः, क्वाऽपि हृद्यविलेपनैः ॥३०४॥ प्रतीक्ष्यमाणः कुत्राऽपि, श्राद्धवन्दारुदारकैः । अन्वीयमानः कुत्राऽपि, दर्शनातृप्तिभिर्जनैः ॥३०५॥ लोकैः क्वचित् क्रियमाणवस्त्रोत्तारणमङ्गलः । कुत्रचिद् दीयमाना?, दधि-दूर्वा-ऽक्षतादिभिः ॥ ३०६ ॥ स्ववेश्मनयनायोपरोध्यमानः क्वचिज्जनैः । क्वाऽपि भूलुठनागच्छज्जनेन प्रस्खलद्गतिः ॥३०७॥ मृज्यमानपदाम्भोजः, श्राद्धैः क्वाऽपि शिरोरुहैः । आदेशं याच्यमानश्च, मुग्धधीभिः क्वचिज्जनैः॥३०८ ॥ निर्ग्रन्थो निर्ममोऽनीहः, स्वामी ग्रामान पुराणि च । तीर्थीकुर्वन् स्वसंसर्गाद्, विजहार वसुन्धराम् ॥३०९ ॥
॥षड्भिः कुलकम् ॥ |घूकघूत्कारपोरेषु, स्फारफेत्कारफेरुषु । फणिफूत्काररौद्रेषु, माद्यदुत्क्रोशदोतुषु ॥३१०॥ रटढुककरालेषु, चमूरूक्रूरवृत्तिषु ।शार्दूलकुलबूत्कारप्रकारप्रतिनादिषु ॥३११ ॥,
१ गजः । २ प्रतीक्षमाणः । ३ वायुवत् । ४ श्रावकाणां वन्दनशीलैः पुत्रैः । ५ शृगालः । ६ बिडालः । ७ मृगविशेषः । ८ गर्जना।
282828282828282828282828282
अजितजिनस्योग्रविहारिता।
॥८५ ॥