________________
त्रिषष्टि
द्वितीयं पर्व तृतीयः
शलाकापुरुषचरिते
सर्गः
॥८६॥
अजितसगरचरितम् ।
282888888888888888888888888
महेभभज्यमानद्रुविद्रुतद्रोणराविषु । सिंहपुच्छच्छटाच्छोटस्फोट्यमानाश्मभूमिषु ॥ ३१२ ॥ शरभोत्पिष्टदन्तीन्द्रकीकसाकुलवर्त्मसु । मृगयाव्यग्रशबरधनुर्नादानुनादिषु ॥ ३१३ ॥ भल्लूककर्णग्रहणव्यग्रभिल्लार्भकेषु च । अन्योऽन्यतरुशाखाग्रसङ्घर्षोच्छलदग्निषु ॥ ३१४ ॥ महागिरि-महारण्येष्वपि ग्राम-पुरेष्विव । निष्प्रकम्पमनाः काम, व्यहार्षीदजितप्रभुः ॥३१५ ॥
॥षड्भिः कुलकम् ॥ भूतलालोकमात्रेण, जायमानजनभ्रमौ । कदाचन गिरेप॑नि, शृङ्गान्तरमिव स्थिरः॥३१६ ॥ उत्फालमर्कटकुलभज्यमानास्थिसन्धिनि । कदाचन महासिन्धुरोधःसीमनि वृक्षवत् ॥३१७ ॥ क्रीडदुत्तालवेताल-पिशाच-प्रेतसङ्कले । वात्यावर्तितधूलीके, श्मशाने च कदाचन ॥ ३१८ ॥ रौद्रेभ्योऽपि हि रौद्रेषु, स्थानेष्वन्येष्वपि प्रभुः । कायोत्सर्ग निसर्गकधीरो व्यधित लीलया ॥३१९ ॥
॥चतुर्भिः कलापकम् ॥ तपश्चतुर्थं कदाचित्, तपः षष्ठं कदाचन । तपोऽष्टमं कदाचिच्च, कदापि दशमं तपः ॥ ३२० ॥ अन्यदा द्वादशतपश्चतुर्दशतपोऽन्यदा । अन्यदा षोडशतपस्तपोऽष्टादशमन्यदा ॥ ३२१ ॥ एकदा मासिकं च द्विमासिकं च त्रिमासिकम् । चतुः-पञ्च-षण्मासिकान्यप्यथो सप्तमासिकम् ॥३२२ ॥ तपोऽष्टमासिकं यावद्, भगवानजितप्रभुः । विदधे विहरन्नार्यदेशेष्वक्षीणशक्तिकः ॥३२३ ॥
॥चभिः कलापकम् ॥ १ उड्डीनः । २ काकः । ३ अष्टापदः । ४ अस्थि । ५ ऋक्षः। ६ अन्यच्छिखरमिव ।
282828282828282828282828286
अजितजिनस्योग्रविहारिता।
॥८६॥