________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ८४ ॥
EREREREREREREREDERERERERERE
हित्वा कषायान् मलवत्, कृपाजलपरिप्लुतः । त्वमेवाऽसि विशुद्धात्मा, निर्लेपः पद्मपत्रवत् ॥ २८४ ॥ राज्येऽपि न्यायनिष्ठस्य, न स्वो न च परस्तव । प्राप्तावसरमेतत् तेऽधुना साम्यं किमुच्यते ? ॥ २८५ ॥ वितर्कयामि भगवन्!, दानं यद् वार्षिकं तव । त्रैलोक्याभयदानोरुनाटकस्याऽऽमुखं हि तत् ॥ २८६ ॥ धन्यास्ते विषया ग्रामा, नगर्यः पत्तनानि च । मलयानिलवद् यानि, प्रीणयन् विहरिष्यसे ॥ २८७ ॥ स्तुत्वेति स्वामिनं राजा, नमस्कृत्य च भक्तितः । मन्दं मन्दं ययौ बाष्पक्लिन्ननेत्रो निजां पुरीम् ॥ २८८ ॥ द्वितीयस्मिन् दिने स्वामी, ब्रह्मदत्तनृपौकसि । चकार षष्ठतपसः, परमान्नेन पारणम् ॥ २८९ ॥ ववृषुस्त्रिदशाः सार्धस्वर्णद्वादशकोटिकाम् । वसुधारां ब्रह्मदत्तनरेश्वरगृहाङ्गणे ॥ २९० ॥ उन्नमद्बाहवश्चेलाञ्चलानुच्चिक्षिपुः सुराः । अनिलान्दोलितलतापल्लवश्रीमलिम्लुचान् ॥ २९९ ॥ वेलाविलोलजलधिध्वानधीरध्वनिस्तथा । दध्वान दुन्दुभिर्व्योम्नि, सानन्दामरताडितः ॥ २९२ ॥ पर्यटत्स्वामियशसां, स्वेदवारिभ्रमप्रदाम् । तत्र गन्धाम्बुवृष्टिं च, त्रिविष्टपसदो व्यधुः ॥ २९३ ॥ अन्वीयमानां परितो, मित्रैरिव मधुव्रतैः । पञ्चवर्णपुष्पवृष्टिं विदधुर्विबुधोत्तमाः ॥ २९४ ॥ अहो! दानं महादानं, सुदानमिदमस्य हि । प्रभावात् तत्क्षणं दाता, भवत्यतुलवैभवः ॥ २९५ ॥ मुच्यते च भवेऽत्रैव, कश्चित् कश्चित् तृतीयके । द्वितीये कल्पातीतेषु, कल्पेषूत्पद्यतेऽथवा ॥ २९६ ॥ एवं कोलाहलं व्योम्नि, चक्रुर्मुदितचेतसः । दिवौकसो जयजयारावपूर्वकमुच्चकैः ॥ २९७ ॥ ॥ त्रिभिर्विशेषकम् ॥
१ प्रस्तावना । २ देवाः । ३ भ्रमरैः ।
CREDEREREDERERERERERERERERER
द्वितीयं पर्व तृतीय: सर्गः
अजित
सगर
चरितम् ।
अजितप्रभोः प्रथमं पारणम् ।
1128 11