________________
त्रिषष्टि
शलाका
पुरुषचरि
॥ ८३ ॥
FRYRYDEREREREREREDERERER TRY
विवेकशाणैर्वैराग्यशस्त्रं शांतं तथा त्वया । यथा मोक्षेऽपि तत् साक्षादकुण्ठितपराक्रमम् ॥ २७० ॥ यदा मरुन्नरेन्द्र श्रीस्त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम, विरक्तत्वं तदापि ते ॥ २७९ ॥ नित्यं विरक्तः कामेभ्यो, यदा योगं प्रपद्यसे । अलमेभिरिति प्राज्यं, तदा वैराग्यमस्ति ते ॥ २७२ ॥ सुखे दुःखे भवे मोक्षे, यदौदासीन्यमीशिषे । तदा वैराग्यमेवेति, कुत्र नाऽसि विरागवान्? ॥ २७३ ॥ दुःखगर्भे मोहगर्भे, वैराग्ये निष्ठिताः परे । ज्ञानगर्भं तु वैराग्यं, त्वय्येकायनतां गतम् ॥ २७४ ॥ औदासीन्येऽपि सततं, विश्वविश्वोपकारिणे । नमो वैराग्यनिघ्नाय तोयिने परमात्मने ॥ २७५ ॥ जगद्गुरुमिति स्तुत्वा नमस्कृत्य च सामराः । तेऽमरस्वामिनो जग्मुद्वपं नन्दीश्वरं ततः ॥ २७६ ॥ जन्माभिषेकवत् तत्र, पर्वतेष्वञ्जनादिषु । शाश्वतार्हत्प्रतिमाष्टाह्निकां शक्रादयो व्यधुः ॥ २७७ ॥ नाथं कदा नुं भूयोऽपि द्रक्ष्याम इति वादिनः । सदेवा देवपतयः, स्वं स्वं स्थानं ततो ययुः ॥ २७८ ॥ सगरोऽपि सभूपालः, प्रणम्य परमेश्वरम् । कृताञ्जलिर्गद्गदवागिति स्तोतुं प्रचक्रमे ॥ २७९ ॥ भगवन्नजितस्वामिन्!, विजयस्व जगद्गुरो ! । त्रैलोक्यपद्मिनीखण्डविकासनदिवाकर ! ॥ २८० ॥ मति-श्रुता-ऽवधि-मन:पर्ययैर्नाथ! शोभसे । ज्ञानैश्चतुर्भिरुद्दामैरर्णवैरिव मेदिनी ॥ २८१ ॥ त्वं हेलयाऽपि कर्माणि, प्रोन्मूलयितुमीशिषे । अयं परिकरस्ते तु, लोकानां मार्गदर्शकः ॥ २८२ ॥ भगवन्नन्तरात्मा त्वं मन्येऽहं सर्वदेहिनाम् । तेषामद्वैतसौख्याय, यतसे कथमन्यथा? ॥ २८३ ॥ १ तीक्ष्णीकृतम् । २ देवेन्द्राणां राज्ञां च श्रीः । ३ अतिशयितम् । ४ वैराग्याधीनाय । ५ रक्षित्रे । ६ वितर्के। ७ क्रीडामात्रेण । ८ उपकरणम् ।
FREDEREREREREDERERERERERERY
द्वितीयं पर्व तृतीयः सर्गः
अजित
सगर
चरितम् ।
अजितप्रभोः
प्रव्रज्या ।
11 23 11