________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम्।
॥८२॥
1282828282828282828RURURURUA
| उज्झाञ्चकार तदनु, रत्नालङ्करणादिकम् । रत्नत्रितयमादित्सुर्युसदामपि दुर्लभम् ॥ २५६ ॥
देवदूष्यं देवराजेनोपनीतमदूषितम् । सोपधिं धर्ममादेष्टुं, जगत्पतिरुपाददे ॥ २५७ ॥ कृतषष्ठतपा माघस्योज्ज्वले नवमीदिने । रोहिणिऋक्षगे चन्द्रे, सप्तच्छदतरोस्तले ॥ २५८ ॥ सायाहन्यजितस्वामी, मुष्टिभिः पञ्चभिः कचान् । स्वयमुत्पाटयामास, रागादीनिव सर्वतः ॥२५९ ॥
॥युग्मम्॥ सौधर्मेन्द्रः प्रतीयेष, स्वोत्तरीयाञ्चलेन तान् । प्रसाददत्तार्थमिव, पुष्कलं वरिवस्यकः ॥ २६०॥ सहस्राक्षः क्षणेनाऽपि, स्वामिनस्तान् शिरोरुहान् । क्षीरोदे प्राक्षिपत् पूजामिव सांयात्रिकः स्वयम् ॥२६१॥ तत्रैत्य वेगात् तुमुलं, सुरा-ऽसुर-नृणां हरिः । न्यषेधन्मुष्टिसंज्ञातो, मौनमन्त्रमिव स्मरन् ॥ २६२ ॥ कृत्वा सिद्धनमस्कार, सामायिकमुदीरयन् । प्रभुश्चारित्रमारोहन्मोक्षमार्गमहारथम् ॥२६३ ॥ सोदर्यमिव दीक्षाया, युग्मजातं तदैव हि । ज्ञानं तुरीयमुत्पेदे, मनःपर्ययमीशितुः ॥२६४ ॥ अपि नारकजन्तूनां, क्षणं सुखमभूत् तदा । जगत्त्रये च प्रद्योत, उद्योत इव वैद्युतः ॥२६५ ॥ नृपाः सहस्रं जगृहुस्ततो दीक्षामनुप्रभु । स्वामिपादानुगमनव्रतानामुचितं ह्यदः ॥ २६६ ॥ अथ प्रदक्षिणीकृत्य, जगन्नाथं प्रणम्य च । एवमारेभिरे स्तोतुमच्युताद्याः पुरन्दराः ॥ २६७ ॥ पट्वभ्यासादरैः पूर्वं, तथा वैराग्यमाहरः । यथेह जन्मन्याजन्म, तत् सात्मीभावमागमत् ॥ २६८ ॥ दुःखहेतुषु वैराग्यं, न तथा नाथ! निस्तुषम् । मोक्षोपायप्रवीणस्य, यथा ते सुखहेतुषु ॥ २६९ ॥
१ज्ञानदर्शनचारित्ररूपं । २ सवस्वमिति भावः । ३ नक्षत्रगे। ४ जग्राह। ५ सेवकः । ६ सहजातम् । ७ उज्ज्वलम्।
282828282828282828282828282
अजितप्रभोः प्रव्रज्या।
॥८२॥