________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
तृतीयः सर्गः
॥८१॥
अजितसगरचरितम् ।
28282828282828282828AXRXAUR
सुरा-ऽसुर-नरैरेवं, क्रियमाणमहोत्सवः । सहस्राम्रवणं नाम, प्रापोद्यानं क्रमात् प्रभुः ॥२४२॥ कुसुमामोदमत्तालिश्रेणिदुःसञ्चरान्तरैः । परितः कृतवृतिकं, सन्ततः केतकीद्रुमैः ॥ २४३ ॥ वण्ठैरिव महेभ्यानां, नागराणां कुमारकैः । रिरंसुभिर्माय॑मानमहीरुहलतान्तरम् ॥२४४ ॥ मुहुः कुरुबका-ऽशोक बकुलादिमहीरुहाम् । क्रीडाप्रसङ्गात् पौरीभिः, पूर्यमाणोरुदोहदम् ॥ २४५ ॥ विद्याधरकुमारैश्च, निषद्य पथिकैरिव । आचम्यमानसुस्वादुसारणीवारि कौतुकात् ॥ २४६॥ अभ्रंलिहेषु वृक्षेषु, कृतास्पदमनेकशः । क्रीडया खेचरद्वन्द्वैविहङ्गमिथुनैरिव ॥ २४७ ॥ परागैदिव्यकर्पूर-कस्तूरीक्षोदसोदरैः । अकर्कशैर्गुल्फदनैर्विश्व सिकतिलावनि ॥२४८ ॥ राजादन-नागरङ्ग-करुणक्ष्मारुहां तले । दुग्धेनोद्यानपालीभिः, पूर्यमाणालवालकम् ।।२४९ ॥ विचित्रसन्दर्भविधौ, सस्पर्धाभिः परस्परम् । पुष्पैर्मालिकबालाभिरारब्धोद्दामदामकम् ॥ २५० ॥ दिव्यतल्पा-ऽऽसनामनेष्वपि सत्सु कुतूहलात् । शयाना-ऽऽसीन-भुञ्जानजनं रम्भादलेष्वलम् ॥ २५१ ॥ फलप्राग्भारभारावनम्रप्रालम्बमण्डलैः । चुम्ब्यमानावनितलं, विविधैरवनीरुहैः ॥२५२ ॥ सहकाराङ्करास्वादादश्रान्तमवकोकिलम् । दाडिमास्वादनोन्मत्तशुककोलाहलाकुलम् ॥२५३ ॥ एकच्छायं क्षितिरुहैर्वर्षाभैरिव सन्ततैः । प्रविवेश तदुद्यानं, भगवानजितप्रभुः ॥२५४ ॥
॥द्वादशभिः कुलकम् ॥ ततश्च शिबिकारत्नादुत्ततार जगद्गुरुः । रथादिव रथी सिन्धुमुत्तरीतुं भवं स्वयम् ॥ २५५ ॥
१ कृतवेष्टनम् । २ विना वेतनेन कार्यकरा वण्ठाः । ३ गुल्फप्रमाणैः। ४ मालाकारकन्याभिः । ५ अवक्रुष्टं कोकिलाभिः ।
282828282828282828282828282
अजितजिनप्रव्रज्यामहोत्सवः।