________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ८० ॥
GRERERERERE
A X D X D x R x x x
आरात्रिकं सप्तशिखं, काश्चिद् वह्निमिवोद्दधुः । पूर्णपात्राण्यधुः काश्चिद्, यशांसीव पुरः प्रभोः ॥ २२८ ॥ पूर्णकुम्भान् दधुः काश्चिन्मङ्गलानां निधिनिव । खे सन्ध्याभ्रनिभं चक्रुः, काश्चिद् वस्त्रावतारणम् ॥ २२९ ॥ मङ्गलानि जगुः काश्चिनृत्यन्ति स्म च काश्चन । रुचिरं जहसुः काश्चिन्मुदिताः परयोषितः ॥ २३० ॥ ॥ चतुर्भिः कलापकम् ॥
व्योमापि व्यानशे भक्तैर्विद्याधर- सुरा - सुरैः । इतस्ततो धावमानैः, सौपर्णेयकुलैरिव ॥ २३१ ॥ इन्द्राणां च चतुःषष्टेर्नाट्यानीकैरनेकशः । नाटकान्यभ्यनीयन्त, स्वाम्यग्रे धन्यमानिभिः ॥ २३२ ॥ सङ्गीतकानि गन्धर्वसैन्या अपि बिडौजसाम् । ओजायमाना युगपज्जायमानमुदो व्यधुः ॥ २३३ ॥ सगरानुजीविनोऽपि, जायाजीवा: पदे पदे । पात्रैर्विचित्रैर्नाट्यानि, दिविषत्स्पर्धया व्यधुः ॥ २३४ ॥ अयोध्यामण्डनं राजगन्धर्वरमणीजनाः । विश्वदृग्दृष्टिबन्धन्ति, प्रेक्षणीयानि चक्रिरे ॥ २३५ ॥ तदा च दिव्यैर्भीमैश्च, नाट्यसङ्गीतकस्वरैः । रोदः कुक्षिम्भरिरभूदुत्तालस्तुमुलध्वनिः ॥ २३६ ॥ अनेकनृप-सामन्त-महेभ्यानां प्रचारिणाम् । सम्मर्दत्रुटितैहारैरासन् शर्करिला भुवः ॥ २३७ ॥ दिव्यानामथ भौमानां, मत्तानां वरदन्तिनाम् । मदाम्भोभिरजायन्त, राजमार्गाश्च पङ्किलाः ॥ २३८ ॥ सुरा -ऽसुर-नरैः सर्वैर्मिलितैः स्वामिनो ऽन्तिके । एकाधीशतया रेजे, त्रिलोक्यप्येकलोकवत् ॥ २३९ ॥ अत्यन्तदक्षिणो लोकदाक्षिण्येन जगत्पतिः । प्रतीयेष निरीहोऽपि मङ्गलानि पदे पदे ॥ २४० ॥ सम्भूय गच्छतस्तत्र, सुरानपि नरानपि । समप्रसादया दृष्ट्याऽनुजग्राह जगद्गुरुः ॥ २४१ ॥
१ गरुडसमूहै : । २ नर्तकाः । ३ शर्करायुक्ताः ।
CREDEREREDEREREREREDERERERE!
द्वितीयं पर्व तृतीयः सर्गः अजित
सगर
चरितम् ।
अजितजिनप्रव्रज्यामहोत्सवः ।
1120 11