________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम् ।
॥७४॥
28282828282828282828282828
इत्युक्तोऽजितनाथेन, श्यामास्योऽश्रूणि पातयन् । एकैकबिन्दुवर्षीव, वारिदः सगरोऽब्रवीत् ॥१४३ ॥ अभक्तिः किं मया देव!, विदधे देवपादयोः । आत्मनो मां पृथक् कर्तुमद्य येनैवमादिशः? ॥१४४॥ अभक्तिर्वाऽस्तु विहिता, नाऽप्रसादाय साऽपि हि । पूज्यैरभक्तोऽपि शिशुः, शिष्यते न तु हीयते ॥१४५ ॥ किं नामाऽभ्रंलिहेनाऽपि, छायाहीनेन शाखिना? । किं वा समुन्नतेनाऽपि, वृष्टिहीनेन वार्मुचा? ॥१४६ ॥ किं वा निर्झरहीनेन, तुङ्गेनाऽपि महीभृता? । किं वा लावण्यहीनेन, सुरूपेणाऽपि वर्मणा? ॥१४७॥ किंवा गन्धविहीनेन, पुष्पेणाऽपि विकासिना? । अनेन त्वद्विहीनेन, राज्येनाऽपि हि किं मम? ॥१४८॥
॥त्रिभिर्विशेषकम् ॥ निर्ममस्य निरीहस्य, मुमुक्षोरपि ते सतः । प्रभो! पादौ न मोक्ष्यामि, का राज्यादानसङ्कथा? ॥ १४९ ॥ राज्यं पुत्राः कलत्राणि, मित्राण्यथ परिच्छदः । तृणवत् सुत्यजं सर्वं, त्वत्पादौ दुस्त्यजौ तु मे ॥ १५० ॥ राजीभवति नाथेऽहं, युवराज्यभवं यथा । त्वयि व्रतधरे शिष्यीभविष्याम्यधुना तथा ॥१५१॥ गुरुपादाम्बुजोपास्तितत्परस्य दिवानिशम् । शैक्षस्य भैक्षमपि हि, साम्राज्यादतिरिच्यते ॥ १५२ ॥ भवं तरिष्याम्यज्ञोऽपि, भवत्पादावलम्ब्यहम् । गोपच्छलग्नो हि तरेन्नी गोपालबालकः ॥१५३ ॥ दीक्षां सह त्वयाऽऽदास्ये, विहरिष्ये सह त्वया । दुःसहांश्च सहिष्येऽहं, त्वया सह परीषहान् ॥१५४ ॥ त्वया सहोपसर्गाश्च, सहिष्ये त्रिजगद्गुरो!। कथञ्चिदपि न स्थास्याम्यहमत्र प्रसीद मे ॥१५५ ॥ अथेत्थमजितस्वामी, सेवाबद्धैकसङ्गरम् । सगरं व्याजहारातिपीयूषोद्गारया गिरा ॥१५६॥
१ शिक्ष्यते। २ मेघेन। ३ शरीरेण। ४ शिष्यस्य। ५ सेवानिबद्धप्रतिज्ञम् ।
182828282828282828282828282
अजितजिनस्य दीक्षासंकल्पः।
॥७४॥