________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ७३ ॥
=
REDERERERE
REDERERERY
पुमानेषां च कार्येण, युक्तायुक्तमचिन्तयन् । विमूढः पशुवन्नानापापानि विदधाति हि ॥ १२८ ॥ येषामर्थे च पापानि, विधत्ते मुग्धधीर्जनः । ते तं मृत्युपथे यान्तं नानुयान्ति मनागपि ॥ १२९ ॥ इहैव तेऽवतिष्ठन्ते, यदि तिष्ठन्तु तन्ननु । अहो ! शरीरमप्येतन्नाऽनुयाति पदात् पदम् ॥ १३० ॥ ततः शरीरकस्याऽपि कृतघ्नस्य कृते मुधा । मुग्धैर्विधीयते हन्त !, पापकर्म शरीरिभिः ॥ १३१ ॥ एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः, प्रचितानि भवान्तरे ॥ १३२ ॥ अन्यैस्तेनाऽर्जितं वित्तं, भूयः सम्भूय भुज्यते । स त्वेको नरकक्रोडे, क्लिश्यते निजकर्मभिः ॥ १३३ ॥ दुःखदावाग्निभीष्मेऽस्मिन् वितते भवकानने । बम्भ्रमीत्येक एवाऽसौ जन्तुः कर्मवशीकृतः ॥ १३४॥ यद् दुःखं भवसम्बन्धि, यत् सुखं मोक्षसम्भवम् । एक एवोपभुङ्क्ते तन्न सहायोऽस्ति कश्चन ॥ १३५ ॥ यथैवेकस्तरन् सिन्धुपारं व्रजति तत्क्षणात् । न तु हृत्पाणि-पादादिसंयोजितपरिग्रहः ॥ १३६ ॥ तथैव धन-देहादिपरिग्रहपराङ्मुखः । स्वस्थ एको भवाम्भोधिपारमासादयत्यसौ ॥ १३७ ॥ इति चिन्तापरं नाथं, भवनिर्विण्णचेतसम् । सारस्वतादयो लोकान्तिका एत्याऽब्रुवन् सुराः ॥ १३८ ॥ स्वयं बुद्धोऽसि भगवन्नस्माभिर्न हि बोध्यसे । किन्त्विदं स्मार्यते विश्वनाथ! तीर्थं प्रवर्तय ॥ १३९ ॥ इत्युदीर्याऽजितस्वामिपादान् नत्वा च ते तदा । ब्रह्मलोकं ययुः सायं, स्वनीडमिव पक्षिणः ॥ १४० ॥ आत्मचिन्तानुकूलेन, तेन तद्वचसा प्रभोः । ववृधे भववैराग्यं, पौरस्त्यमरुताऽब्दवत् ॥ १४१ ॥ ततः सगरमाहूय, जगाद त्रिजगद्गुरुः । गृह्यतां राज्यभारो नः, संसाराब्धि तीतीर्षताम् ॥ १४२ ॥
१ सञ्चितानि । २ पुनः पुनः भ्रमति । ३ पूर्वदिग्वायुना मेघो यथा वर्धते तद्वत् ।
¡EDERERERERERERERERERERERERKI
द्वितीयं पर्व तृतीय: सर्गः अजितसगर
चरितम् ।
अजितजिनस्य दीक्षासंकल्पः
॥ ७३ ॥