________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः
सर्गः
॥७५ ॥
अजितसगरचरितम् ।
282828282828282828282828282
युक्त एवाऽऽग्रहो वत्स! संयमग्रहणं प्रति । किन्तु भोगफलं कर्म, क्षीयतेऽद्यापि ते न हि ॥१५७ ॥ भुक्त्वा भोगफलं कर्माहमिव त्वमपि स्वयम् । मोक्षस्य साधकतमं, गृह्णीयाः समये व्रतम् ॥१५८ ॥ युवराज! ततो राज्यं, गृहाणेदं क्रमागतम् । वयं संयमसाम्राज्यमुपादास्यामहे पुनः ॥१५९ ॥ इत्युक्तः स्वामिना सोऽथ, मनस्येवमचिन्तयत् । भर्तुविरहभीराज्ञाभङ्गभीश्च दुनोति माम् ॥१६०॥ दुःखाय स्वामिविरहस्तदाज्ञातिक्रमश्च मे । इति द्वयं विमृशतो, गुर्वाज्ञापालनं वरम् ॥१६१॥ इत्थं विचार्य मनसा, सगरो गद्गदस्वरः । तथेति स्वामिनो वाचं, प्रतिपेदे महामतिः ॥१६२॥ ततो नरेश्वरवरः, सगरस्य महात्मनः । सद्यो राज्याभिषेकार्थमादिदेश नियोगिनः ॥१६३ ॥ अथाऽऽनीयत पानीयं, स्नानीयं तीर्थसम्भवम् । कुम्भैरम्भोरुहच्छन्नैर्लयूभूतैर्हदैरिव ॥१६४॥ अभिषेकोपकरणद्रव्याण्यन्यान्यपि क्षणात् । व्यापारिभिरढौक्यन्त, प्राभृतानीव राजभिः ॥१६५ ॥ प्रतापेष्विव मूर्तेषु, समायातेषु राजसु । आगतेषु च मन्त्रेणाऽतीन्द्रमन्त्रिषु मन्त्रिषु ॥ १६६ ॥ उपेतेषु चमूपालेष्वाशापालेष्विवाऽऽज्ञया । मिलितेष्वेककालं च, हर्षोत्तालेषु बन्धुषु ॥ १६७ ॥ हस्त्यश्वसाधनाध्यक्षप्रभृतिष्वपरेष्वपि । उपस्थितेषु युगपदुत्थायैकगृहादिव ॥ १६८ ॥ शङ्केष्वापूर्यमाणेषु, नादनिर्झरसानुषु । आहतेषु मृदङ्गेषु,, मेघसैब्रह्मचारिषु ॥१६९ ॥ कोणैराहन्यमानेषु, दुन्दुभिष्वानकेषु च । प्रतिशब्दैः सर्वदिशां, मङ्गलाध्यापकेष्विव ॥ १७० ॥ आस्फलत्सु मिथः कांस्यतालेषूमिष्विवाऽम्बुधेः । झणज्झणायमानासु, झल्लरीषु च सर्वतः ॥१७१॥ १ अतिक्रान्तबृहस्पतिषु । २ दिक्पालेषु । ३ सेनापतिः । ४ मेघसदृशेषु ।
282828282828282828282828282
सगरस्य राज्याभिषेक
॥७५ ॥