________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३४९ ॥
भरतस्य निर्वाणम् ।
शक्रोऽभ्यधाद् द्रव्यलिङ्गं, प्रतिपद्यस्व केवलिन् ! । यथा वन्दे विदधे च, तव निष्क्रमणोत्सवम् ॥७४१ ।। | ततश्च बाहुबलिवद्, विदधे भरतेश्वरः । प्रव्रज्यालक्षणं केशोत्पाटनं पञ्चमुष्टिकम् ॥ ७४२ ॥
उपनीतं यथा सन्निहितदेवतया ततः । रजोहरणमुख्योपकरणं परतोऽग्रहीत् ।।७४३ ॥ ववन्दे देवराजेन, ततश्च भरतेश्वरः । न जातु वन्द्यते प्राप्तकेवलोऽपि ह्यदीक्षितः ।। ७४४ ।। राज्ञां दशसहस्राश्च, प्राव्रजन्नार्षभि श्रिताः । तादृशस्वामिसेवा हि, परत्राऽपि सुखाकरी ।। ७४५ ॥ अथ विश्वम्भराभारं, सोढुर्भरतजन्मनः । राज्याभिषेकमकरोदादित्ययशसो हरिः ।। ७४६ ।। आरभ्य केवलोत्पत्तेर्ऋषभस्वामिवत् ततः । ग्रामाकरपुरारण्यगिरिद्रोणमुखादिषु ।। ७४७ ॥ धर्मदेशनया भव्यान्, देहभाजः प्रबोधयन् । पूर्वलक्षं विजहार, भरतः सपरिच्छदः ।। ७४८ ॥ अष्टापदगिरौ गत्वा, ततश्च भरतेश्वरः । चक्रे चतुर्विधाहारप्रत्याख्यानं यथाविधि ।। ७४९ ।। अथैकमासपर्यन्ते, चन्द्र श्रवेणऋक्षगे । सिद्धानन्तचतुष्कोऽसौ, सिद्धिक्षेत्रमुपाययौ ॥७५० ।। एवं च भरतः पूर्वलक्षाणां सप्तसप्ततिम् । कुमारभावेऽगमयत्, प्रभौ शासति मेदिनीम् ।।७५१ ॥ एकं माण्डलिकत्वे च, सहस्रं शरदामसौ । अतिवाहितवांश्छद्मस्थतया भगवानिव ।।७५२ ।। एकवर्षसहस्रोनपूर्वलक्षणि षट् तथा । आर्षभिर्व्यतिचक्राम, चक्रवर्तित्वमुद्वहन् ।।७५३ ॥ उत्पन्नकेवलज्ञानो, विश्वानुग्रहकाम्यया । विजहे पूर्वलक्षं च, दिवसं भानुमानिव ॥७५४ ।। * नृपा दशसहस्राणि प्रा आ, सं २ ॥१ परलोकेऽपि । २ श्रवणनक्षत्रगे । ३ वर्षाणाम् ।
॥३४९ ॥