________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३४८ ।।
ग्रैवेयकमहासीच्च, ग्रीवां तद्रहितामथ । नृपो ददर्श निःश्रीकां, निम्नेगामिव निर्जलाम् ।। ७२६ ।। हारमुत्तारयामासाऽऽलोकयामास च क्षणात् । वक्षःस्थलं तद्विहीनं, व्योमेव गततारकम् ।। ७२७ ।। केयूरे चाऽमुचद् बाहू, तन्मुक्तौ च ददर्श सः । उद्वेष्टितार्द्धलतिकापाशौ सालद्रुमाविव ।। ७२८ ।। कङ्कणौ चाऽत्यजत् पाणिमूले ताभ्यां च वर्जिते । निराभलसारकाग्रप्रासादवदुदैक्षत ।। ७२९ ।। अन्यान्यप्यङ्गुलीयानि, तत्याजाऽऽलोकयच्च सः । तद्धीना अङ्गुलीभ्रष्टमणीः फणिफणा इव ॥७३० ।। तत्याज पादकटकौ, ददर्शाऽङ्ग्री तदुज्झितौ । गलितस्वर्णवलयौ, राजेभदशनाविव ।। ७३१ ॥ इति क्रमेण भरतस्त्यक्तसर्वाङ्गभूषणम् । स्वमपश्यत् गतश्रीकं, शीर्णपर्णमिव द्रुमम् ।। ७३२ ।। अचिन्तयच्च धिगहो!, वपुषो भूषणादिभिः । श्रीराहायैव कुंड्यस्य, पुस्ताद्यैरिव कर्मभिः ।।७३३ ॥ अन्तःक्लिन्नस्य विष्ठाद्यैर्मलैः स्रोतोभवैर्बहिः । चिन्त्यमानं शरीरस्य, किमप्यस्य न शोभनम् ॥ ७३४ ॥ इदं शरीरं कर्पूरकस्तूरीप्रभृतीन्यपि । दूषयत्येव पाथोदपाथांस्यूरभूरिव ।।७३५ ।। विरज्य विषयेभ्यो यैस्तेपे मोक्षफलं तपः । तैरेव फलमेतस्य, जगृहे तत्त्ववेदिभिः ।। ७३६ ।। इति चिन्तयतः सम्यगपूर्वकरणक्रमात् । क्षपकश्रेण्यारूढस्य, शुक्लध्यानमुपेयुषः ।। ७३७ ॥ घातिकर्मक्षयादाविरासीत् तस्याऽथ केवलम् । सूर्यप्रकाशो जीमूतपटलापगमादिव ॥७३८ ।। सहसाऽऽसनकम्पोऽभूत्, तदानीं च दिवस्पतेः । महद्भ्यो महतामृद्धिमपि शंसन्त्यचेतनाः ।।७३९ ।। भक्त्या तमभ्यगाच्चेन्द्रो, भक्ता हि प्रतिपत्तिदाः । स्वामिवत स्वामिपुत्रेऽपि, किं पुनः प्राप्तकेवले ? |७४० ॥ १ ग्रीवाभूषणम् । २ नदीम् ।* चाऽमुचत् । ३ भित्तेः । ४ लेप्यकर्माद्यैः । ५ क्षारभूमिः + तमन्वगा
भरतस्य रत्नादर्शगृहान्तः केवलोत्पत्तिः ।
।।३४८ ।।