________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। ३२७ ।।
तत्र सद्योऽपि समवसरणे सुरनिर्मिते । सर्वीयो भगवानासाञ्चक्रे चक्रे च देशनाम् ।। ४१७ ।। गम्भीरया गिरा भर्त्तुर्विदधानस्य देशनाम् । अनूवादेव स गिरिर्गह्वरोत्यैः प्रतिस्वनैः ।। ४१८ ।। वृष्टेरिव पयोवाहः, प्रावृषि त्रिजगत्पतिः । गतायामथ पौरुष्यां, व्यरंसीद् देशनाविधेः ।। ४१९ ।। उत्थाय च ततः स्थानान्मध्यप्राकारमण्डले । देवच्छन्दे देवदेवो, न्यषीदद् देवनिर्मिते ।। ४२० ॥ ततश्च स्वामिनः पादपीठे गणधराग्रणीः । श्रीपुण्डरीको न्यषदत्, सम्राजो युवराडिव ।। ४२१ ।। तथैव हि निषेदुष्यां सभायां गणभृद्वरः । भगवल्लीलया धर्मदेशनां विदधेतराम् ।। ४२२ ।। सोऽपि द्वितीयपौरुष्यां, पारयामास देशनाम् । अवश्यायसुधासेकं, समीरण इव प्रेगे ।। ४२३ ॥ एवं सत्त्वोपकाराय, कुर्वाणो धर्मदेशनाम् । कञ्चित् कालं तत्र तस्थावष्टापद इव प्रभुः ।। ४२४ ।। अन्यतश्च प्रतिष्ठासुरपरेद्युर्जगद्गुरुः । गणभृत्पुण्डरीकं तं, पुण्डरीकं समादिशत् ।। ४२५ ।। महामुने ! प्रयास्यामो, विहत्तुं वयमन्यतः । गिरौ तिष्ठ त्वमत्रैव, मुनिकोटिभिरावृतः ।। ४२६ ।। अत्र क्षेत्रानुभावेन, भवतोऽचिरकालतः । ज्ञानं सपरिवारस्योत्पत्स्यते केवलं खलु ॥ ४२७ ॥ इहैव शैले शैलेशीध्यानमासेदुषस्तव । परिवारसमेतस्याऽचिरान्मोक्षो भविष्यति ॥ ४२८ ॥ तथेति स्वामिनो वाचं, प्रतिपद्य प्रणम्य च । तत्रैव सोऽस्थाद् गणभृत्, सहैव गणकोटिभिः ।। ४२९ ॥ तीरगर्तेषु रत्नौघमुद्वेल इव वारिधिः । मुक्त्वा तं तत्र नाथोऽगादन्यतः सपरिच्छदः ।। ४३० ।। पुण्डरीकः स्थितस्तत्र, पर्वते मुनिभिः समम् । उदयाद्रितटे सार्द्धमृक्षैरिव निशाकरः ।। ४३१ ।। १ सर्वहितकारी । २ विरामं प्राप्तवान् । ३ मण्डलेश्वरस्य । ४ हिमामृतसिञ्चनम् । ५ प्रातःकाले । ६ प्रस्थातुमिच्छुः । ७ नक्षत्रैः ।
6
प्रथमं पर्व
षष्ठः
सर्गः श्रीऋषभ
स्वामि
चरितम् ।
श्रीऋषभ
स्वामी
वचनेन पुण्डरीक
गणभृतः शत्रुञ्जये
स्थिरता ।
।। ३२७ ।।