________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
शत्रुञ्जय
उद्बुद्धसूचिव्याजेन, सातपलितैरिव । जरद्भिः केतकीवृक्षरशून्याधित्यकाभुवम् ॥ ४०३ ॥ स्थाने स्थाने सिन्दुवारैः, श्रीखण्डद्रवपाण्डुभिः । कृतसर्वाङ्गमङ्गल्यपुण्ड्रावलिमिवोच्चकैः ।। ४०४ ।। शाखास्थितगोलाललाङ्कलजटिलीकृतैः । चिञ्चाद्रुमैरनुकृतप्लक्षन्यग्रोधपादपम् ।। ४०५ ।। अद्भुतस्वपरीणाहसम्पदा मुदितैरिव । नित्यं कण्टकिलफलैः, पनसैरुपशोभितम् ॥ ४०६ ।। श्लेष्मातकैरमारात्रितमःसब्रह्मचारिभिः । अञ्जनाचलचूलाभिराहताभिरिवाऽवित्तम् ॥ ४०७ ॥ किंशुकैः शुकचञ्चूवदारक्तकुसुमद्धिभिः । शोभमानं महानागं, कुङ्कमस्थासकैरिव ।। ४०८ ।। क्वाऽपि द्राक्षाभवं क्वाऽपि, खार्जूरं क्वाऽपि तालजम्। मध्वापिबद्भिराबद्धगोष्ठीकं शबरीजनैः ।। ४०९ ॥ अभेद्यैरर्ककिरणेषूणामस्खलतामपि । सन्नाहमिव बिभ्राणं, ताम्बूलीवनमण्डपैः ॥४१० ॥ आर्द्रदूर्वाडरास्वादसुहितैर्मुगमण्डलैः । आबध्यमानरोमन्थं, महाविटपिनां तले ॥४११ ॥ सहकारफलास्वादमनचञ्चूपुटैश्चिरम् । शुकैर्निरन्तरैर्जात्यवैडूर्यैरिव मण्डितम् ।।४१२ ।। केतकी-चम्पका-5शोक-कदम्ब-बकुलोद्भवैः । परागैः पवनोद्भूतै, रजस्वलशिलातलम् ॥४१३ ॥ पान्थसार्थास्फाल्यमाननालिकेरीफलाम्भसा । परितः पङ्किलीभूतोपत्येकातटभूतलम् ॥४१४ ।। भद्रशालप्रभृतीनां, मध्याद् वैशाल्यशालिना । वनेनैकतमेनेव, तरुखण्डेन मण्डितम् ॥४१५ ॥ पञ्चाशद्योजनं मूले, शिखरे दशयोजनम् । तमष्टयोजनोत्सेधमारुरोह गिरिं प्रभुः ॥ ४१६ ॥
॥ एकविंशत्या कुलकम् ॥ १ अशून्यपर्वतोपरिसमभूमिकम् । २ वृक्षविशेषैः । ३ कपयः । ४ अम्लिकावृक्षैः । ५ विस्तारः । ६ अमावास्यारात्रितमःसमानैः । ७ महागजम् । * दमुदितैर्मृ । ८ आबध्यमानचर्वितचर्वणम् । ९ आसन्नभूमिः । १० विशालत्वशोभिना ।। ११ अष्टयोजनोच्छ्रितम् ।
तीर्थ
ऋषभप्रभुः।
॥३२६ ॥