SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ५२ प्रथमा विभक्तिविचारः । चैत्रेणेत्यादौ धात्वर्थव्यापाराणां बहुत्वात्कथमेकत्वान्वय इति वाच्यम् । व्यापाराणां बहुत्वेऽपि पूर्वापरीभूतानां तेषामेकबुद्धिविषयतयैक्यसम्भवात् । बुद्धिगतैकत्वस्य स्वाश्रयविषयत्वसंबन्धेन व्यापारेष्वन्वयसम्भवात् । तदुक्तम् । गुणभूतैरवयवैः समूहः क्रमजन्मनां । बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥ इति पूर्वापरीभूतं भावाख्यातमाचष्टे । यथा पचति व्रजतीत्युपक्रम प्रभृत्यपवर्गपर्यन्तमिति निरुक्तमप्यमुमर्थं संवदति । न चैकबुद्दिविषयतया व्यापाराणामैक्ये भावाख्याते कथं द्दिवचन बहुवचनोपपत्तिरिति वाच्यम् । तादृशव्यापाराणां पुनः सम्भवे बुध्यन्तरविषयतया तथा हित्वान्वयसम्भवात् द्विवचनस्य पुनः पुनः सम्भवे पुनर्बुध्यन्तरविषयतया तथा बहुत्वाग्वयसम्भवात् बहुवचनस्य चोपपत्तेः । एवमास्यन्ते इत्यादी उपवेशनव्यापाराणां मुहरन्तरोत्थाने विचतुः कृत्वो जातानां बहुतया बहुवचनोपपत्तिः । शय्यन्ते इत्यवापि शयनव्यापाराणां मुहुरन्तराजागरणे विचतुः कृत्वो जातानां बहुतया बहुवचनोपपत्तिः । इत्थं चोपवेशनक्रियाविशेषणस्य उष्ट्रासिकाशब्दस्य शयनक्रियाविशेषणस्य हतशायिका शब्दस्य बहुवचनान्तत्वं बहुत्वविशिष्टव्यापारे बहुत्वान्यसंख्याविशिष्टस्य तादात्म्येनान्वयायोगात्म मानवचनत्वं तन्त्रम् । उष्ट्रासनसदृश उष्ट्रासिकाऽर्थः । हतशयन सदृशो हतशायिकार्थ इति उष्ट्रासनसदृशानि वर्तमानासनानि हतशयनसदृशानि वर्तमानशयनानीति वाक्यार्थबोध: । नवेवं धात्वर्थे संख्यान्ययोपगमे लिङ्गसंख्यान्वयायोग्यत्व
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy