________________
विभक्त्यर्थनिर्णये।
३८९ धः । यदि निपातार्थस्थाभेदान्वयो न मन्यते तदा प्रतेः कार्यसदृशकार्यकारित्वमेवार्थ इति । एवमश्वो रथात्प्रतीत्यादी रथजन्यगमनसदृशगमनकतोऽश्व इत्यन्वयबोधः । प्रतिदानं द्वितीयदानं सदृशदानमिति यावत् माषानमै तिलभ्यः प्रतियच्छतोत्यादौ पञ्चम्यर्थ हेतुत्वस्य माषदानेऽन्वयः माषाणां श्यामत्वादिना तिलसादृश्यात् । यत्तु काशिकायां प्रतिदानं दत्तस्य प्रतियातनमित्युक्तम् तत्र प्रतियातनं प्रतियत्नफलकं प्रतिप्रयोजनकं प्रत्युपकारमिति यावत् तथा चैतत्संप्रदान कतिलहेतुक माषकर्मकप्रत्यपकारकदानकर्ट त्वं वाक्यार्थः । यत्तु ऋणापाकारणं प्रतिदानमिति तच्च सूवत्तिविरुद्धं तथा हि सूत्रे प्रतिदानग्रहणं न हि ऋणप्रयोग उद्धारो वा दानमिति - चौ दत्तस्य प्रतियातनमित्युक्तं न हि ऋणं दत्तं भवतौति । एवं वलबौ मित्राय कुण्डलाभ्यां प्रतियच्छतीत्यादौ नलोऽश्वहृदयतुपर्णायाचहृदयात्प्रतियच्छतीत्यादौ च दर्शितरीत्याऽन्वयो बोध्यः । सूचे वृत्तौ च यस्मादिति पञ्चमी हेतुत्वार्थिकैवान्यथाऽनुपपत्तेरिति । - णे हेतौ पञ्चमी ज्ञापयति । अकर्तयणे पञ्चमी इति सूत्रं कर्ट वर्जिते ऋणे हेतौ पञ्चमी विभक्तिर्भवतीत्यर्थकम् । शताद् बद्धः सहस्राइव इत्यदौ पञ्चम्या हेतुत्वमर्थः ऋणात्मकशतहेतुकबन्धनकमत्यन्वयबोधः क. तरि ऋणे हेतौ न पचमी किं तु तृतीयैव यथा शतेन बन्धित इत्यादौ अत्र प्रयोजकत्वाहणं कर्ट भूतमिति । गुणे हेती वैकल्पिकौं पञ्चमों ज्ञापयति ।