________________
३९०
पञ्चमीविभक्तिविचारः।। विभाषा गुणेऽस्त्रियामिति सूत्रं गुण हेतौ विभाषा पञ्चमी भवति न तु स्रोलिङ्ग इत्यर्थकम् । जाद्याज्जाडोन वा बद्द इत्यादौ पञ्चमौटतौययोहेतुत्वमर्थों ज्यायहेतुकबन्धनकर्मेत्यन्वयबोध: । अत्र जाधं मोहो मिथ्याज्ञानमिति यावत् तस्य गुणत्वं स्फुटमेव गुण इत्युपादानात् धनेन कुल मित्यादौ न पञ्चमी गुणोऽपि स्त्रियां न पञ्चमी यथा बुड्या मुक्त इत्यादौ अत्र सूत्रे विभाषोपदेशाहणे कर्तरि हेतौ पञ्चम्येव तौयाऽपवा- . दश्च प्रतीयत इति । अत्र विभाषति योगविभागादगगो गणेऽपि स्त्रियां च क चितौ पञ्चमी यथा धूमादग्निमान् नास्ति घटो ऽनुपलबेरित्यादाविति शाब्दिकाः। तच्च न शोभनं तावताऽपि घटो दण्डाहाहो दहनादित्यादी पञ्चम्यनुपपत्ते: धूमादित्यादी ज्ञापकत्वस्वरूपहेतुत्वस्य सूवादलाभात् ज्ञापकत्वे पञ्चम्यनुपपत्तेश्च । तस्माङ्गणेऽप्रधानेऽकर्तरोति यावत् ऋणस्य पूर्वसवेणोपादानात् ऋणान्यस्मिन्नकर्तरि हेती विभाषा पञ्चमी' भवतीतिसूत्रार्थ इति अव एव प्रतिनिधिप्रतिदाने च यस्मादिति हेतुपञ्चमीनिर्देशोऽपि संगच्छते । एवं घटो दण्डादित्यादी पञ्चम्या जनकत्वमर्थः तच्च निरूपकतया घटादावपरपदार्थेऽन्वेति प्रकृत्यर्थस्यधेियतया पञ्चम्यर्थजनकत्वान्वयस्तथा च दण्डत्तिजनकतानिरूपको घट इत्यन्वयबोध इति प्राञ्चः । एकदेशिनस्तु निरूपकत्वादिसंबन्धस्य वृत्त्यनियामकस्य प्रतियोगिताऽनवच्छेदकत्वात् दाहो दहनात् न तु जलादित्यादौ जनकत्वाभावप्रतीत्यसम्भवात् निरूपकत्वान्यसंबन्धावच्छिन्नप्रति