________________
I
विभक्त्यर्थनिर्णये ।
१९
धनत्वादावतिव्याप्तिवारणाय नामार्थान्वययोग्यत्वं विशेषणं स्वविशेषणताविशे षणकृत्यं पूर्वोक्तं बोध्यमिति यास्तु विशेषः । प्रथमानार्थविशे ष्यता कतिङकटकर्मवत्तिप्रकारतया शाब्दं प्रति धातुसमभिव्याहृततिङजग्धोपस्थितेर्विशेष्यतया हेतुत्वमिति शाब्दिकमतेऽप्ययं हेतुहेतुमङ्गावः । परं तु प्रथमान्तार्थविशेषणताकक कर्मविशेष्यतया शाब्दं प्रतीति विशेषः । तेन ति देवदत्तइत्यादौ न तथाशाब्दबोध इति । एवं निरर्थकपदसमभिव्याहारज्ञानाभावदिशिष्ट द्दितीयादिज्ञाननयोपस्थितिविशेयतापन्नं कर्मत्वम् । तद्दिभक्तिजन्योपस्थितिविशेष्यतापन्नं कर्तृत्वं करणत्वं संप्रदानत्वमपादानत्वमधिकरणत्वं नानाविधं कारकपदस्य शक्ाम् । नानार्थमेव कारकपदं तथा च कर्मत्वादिसकल माधारणं कारकपदवाच्यत्वमेव कारकत्वमिति । यथा गोष्टथिव्यादिसकलसाधारणं गोपदवाच्यत्वं गोत्वमिति । ननु मानार्थत्वाभ्युपगमेऽपि कारकपदस्य कारकपदवाच्यत्वं कारकत्वं न भवति कारकपदाधुनिक सङ्केतविषये द्रव्यादावतिव्याप्तेः । न च नित्यसंकेतेन कारकपदवत्वं तत् आधुनिकसंकेतविषये द्रव्यादौ नित्यसंकेताभावानातिव्याप्तिरिति वाच्यम् । तथा सति कर्मत्वादौनामतथात्वादसंभवापत्तेः तेषां शाब्दिकसंकेतेन कारकपदवत्वादिति चेन्न । कर्मत्वादौ कारकपदस्य नित्यसङ्केतात् । व्याकरणे कुत्रापि कारकसंज्ञाया अभावात् शाब्दिक सङ्केताप्रसक्तेः । श्रत एवं "कारक" इत्यधिकारसूत्रमुक्का व्याकरणे "भुवमपायेऽपादानमित्यादिना का