________________
कारकसामान्यविचारः। दासमभिव्याहृतधातुजन्योपस्थितेहेतुत्वम् । तेन घटादिपदेन पाकोपस्थितावपि न तथाशाब्दबोधः । न वा पचनौ स्थाल्यामित्यादी सप्तम्यर्थाधेयत्वस्य धात्वर्थऽन्वयबीधः । भवति च स्थाल्यां पचति पच्यते पाक इत्यादौ तथाशाब्दबोधः । एवं कारकलक्षणे समुपपन्ने कर्तृत्वादौनां धात्वर्थविशेष्यकनिरुक्तसुब्जानजन्योपस्थितिप्रकारौभवद्धर्मावच्छिन्वप्रकारताकशाब्दकालावच्छेदेनैव कारकत्वं यथा धूमादीनां व्याप्तिपक्षधर्मताज्ञानकालावच्छेदनैव वनिगमकत्वस्वरूपं वह्विलिङ्गत्वमिति । इत्यं च क्रियान्वयित्वमित्यपि प्राचीनलक्षणं संगच्छते । तथा हि । अन्वयित्वमात्रोक्तो नामार्थान्वयिनि षष्यर्थशेषादावतिव्याप्तिस्तदारणार्थमुपात्तेपि क्रियापदे कान्तस्य त्वस्यतीत्यादौ सा तदवस्थैवेति क्रियामानान्वयित्वं त- । द्वाच्यम् । तदर्थस्तु धातुं विना स्वविशेषणताकान्वयबो-/ धाजनकसुबर्थत्वमिति तिङर्थस्य कारकत्वमते सुप्पदस्थाने विभक्तिपदं बोध्यमिति विभक्तिनानजन्योपस्थितिविषयो विभक्त्यर्थस्तत्र तादृशोपस्थितौ निरुक्तान्वयबोधस्याजनकत्वमनुपधानं बोध्यमिति । एवं धातुं विना स्क विशेषणताकान्वयबोधानुपहितस्य विभक्तिज्ञानजन्योपस्थितिसामान्यस्य विषयः नामार्थान्वय योग्यः कारकइति । अत्र स्वविशेषणतायां सुपपदस्थाने विभक्तिपर्द प्रक्षिप्य पूर्वोक्तं विशेषणं बोध्यमिति षट्यर्थशेषऽतिव्याप्तिवारणायानुपहितस्येत्यन्तं सामान्य विशेषणं तवाग्यसम्भववारणाय धातुं विनत्युक्त कान्तस्य वस्यतो त्यादी षष्ठाशेषातिव्याप्तिवारणाय सामान्यपदमिति । इष्टसा