SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । तु तथा शाब्दबोधः। चोराद्विभेतीत्यादौ हेतुतासामान्यविलक्षणस्य भय हेतुत्त्वस्य पञ्चम्यर्थस्य बिभेत्याद्यर्थ एवान्वयात् । चौराधनलाभ इत्यादावनन्वयात् न भयहेतुत्वेऽव्याप्तिशङ्का "भौवार्थानां भयहेतुरि ति सूबे भयपदोपादानमेतदर्थमेवेत्यादिकं वच्यते । अव कृत्तद्धितयोरपादानबोधकत्वं न दृश्यते समासे तु चौरभीत इत्यादौ चौरपदस्य चौरभौते लक्षणा भौतशब्दस्य तात्पर्यग्राहकत्वम् । तथा च धातुजन्योपस्थितिविरहात्पञ्चम्यान्वयसम्भवादपादानबोधकपदासमभिव्याहृतत्वम् धातोन विशेषणं न्यायमते प्रयोजनविरहादिति । शाब्दिकमते कृत्तचितसमासेषु त्तिखौकारात् धातुजन्योपस्थितिसम्भवाच्च तविशेषणमेव । यदि च व्याघ्र इति बिभेति भेत्तुं सांप्रतं व्याघ्र इत्यादिप्रयोगानुरोधात् निपातोभयापादानमभिधत्ते तदा न्यायमतेऽपि तविशेषणं बोध्यमिति । एवं चतुर्थ्यर्थखत्वनिरूपकत्वादिप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दं प्रति संप्रदानबोधकपदासमभिव्याहृतमप्रत्ययधातुजन्योपस्थितेविशेष्यतासंब-- न्धेन हेतुत्वं तेन घटादिपदेन लक्षणया दानोपस्थितावपि न तथाशोब्दबोध: । न वा दानीयो ब्राह्मणायेत्यादौ चतुर्थ्यर्थसंप्रदानत्वस्य धात्वर्थेऽन्वयबोधः । भवति च ब्राह्मगाय ददाति दीयते दानमित्यादौ तथाशाब्दबोधः । एवं सप्तम्यर्थस्य कर्तृकर्मान्यतरघटितपरम्परासंबन्धावच्छिनाधेयत्वस्य प्रकारतया ऽऽधेयत्वसामान्यस्य निरुक्तसंबन्वावच्छिन्नप्रकारतया वा निरूपितं यहिशेष्यत्वं तेन संबन्धेन शाब्दं प्रति विशेष्यतासंबन्धेनाधिकरणबोधकप
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy