________________
३३८ . पञ्चमीविभक्तिविचारः । हकिरणयोरभाव प्रतियोगिषु चान्वेति पापविषयकगहींप्रयुक्तः पापविषयकप्रत्यभावः पापविषयककरणादनन्तरस्तदभावः धर्मविषयककर्तव्यतास्मरणाभावप्रयुक्तो धर्मविषयकप्रवृत्त्यभावो वायार्थ इत्याहुः । वस्तुतस्तु बुध्यादिविगमस्वरूपापायवतो जुगुप्साद्यपादानत्वज्ञापनार्थं ध्र वसूचकवाक्यतया बार्तिकारम्भः न तु पञ्चम्या विषयत्वार्थकत्वज्ञापनार्थ तथासति अपादाने पञ्चमौतिसूबैकवाक्यतया तदारम्भः स्यादिति तथा च कर्तव्यत्वप्रकारकत्तानविशेष्यत्वाभावः पञ्चम्या अर्थः स च प्रयो. जकतया जुगुप्सायामन्वेति पञ्चम्यर्थे तादृशाभावे प्रकत्यर्थस्याधेयतयाऽन्वयः जुगुप्सा तु देषविशेषः यहा अपकर्षप्रतिपत्त्यनुकूलव्यापार अत एव जुगुप्सति: सकर्मकस्तन कर्मणोऽपादानत्वविवक्षायां पञ्चमौतरथा तु पापकर्माणि जुगुप्सत इति द्वितीयैव प्रमाणम् एवं पापाज्जुगुप्सत इत्यत्र पापपदस्य पापकर्मपरतायां दुरितननकत्वमपकर्षः दुरितपरतायां तु दुःखजनकत्वं तथा च पापत्तः कर्तव्यचप्रकारकबुद्धिविशेष्यत्वाभाबस्य प्रयोजकोऽपकर्षप्रतिपत्त्यनुकूलो व्यापारी वाक्यार्थः पापस्यापक्रर्षप्रतिपत्तिविशेष्यत्वमर्थात्प्रतीयते न चन्यनिष्ठस्य कर्तव्यता बुद्धिविशेष्यत्वाभावस्य प्रयोजकोऽन्यनिष्ठापकर्षप्रतिपादक: सम्भवति देवदत्ताज्जुजुप्सत इत्यत्र पञ्चम्या गुणाभावोऽर्थः गुणो धैर्यादिः अपकर्षश्चात्त्र क्रोधलोभादिः पूर्ववदन्वयः एतेन जुगसारूपढेषविषयस्य क्रियाफलेन विषयत्वेनामिप्रेततया संप्रदानत्यमेव यथा श्राद्धाय निगर्हत इति तथा चात्रापदिानत्वाभावात् पञ्च