SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। चम्या नानाविधापायार्थकतामपच्चैक विधातिरिक्तावधित्वार्थकत्वमेवोचितं लाघवात् दर्शितेषु सकलस्थलेषु एकविधस्यावधित्वस्य धात्वर्थेऽन्वयोपगमादभीष्टसिद्धेरिति चेन् मैवं नानाविधापायस्य प्रतीयमानस्यापलापापत्तेः अयमस्मात्तार इत्यादाववधित्वस्यैकविधतया नामार्थान्वयेन कारकत्वहान्यापत्तेश्च किं च पञ्चम्या एकविधावधित्वार्थकत्वं न सम्भवति तथा हि वृक्षात्पचतीत्यत्र पाके वृक्षावधित्वान्वयवारणाय तदन्वयबोधं प्रति गमनार्थकधातुजन्योपस्थितेः कारणत्वमुपेयं तथा च वृक्षाद् विभजत इत्यत्नानन्वयापत्तेः न च यद्यद्धातुयोगे पञ्चमी दृश्यते तत्तद्धातुज्यन्योपस्थिति: पञ्चम्यर्थावधित्वान्वयबोधे हेतुरिति वाच्यम् । अननुगमात् वृक्षात् क्रोणातौतिप्रयोगापत्तेश्चत्यलं विस्तरेण । "प्रश्नाख्यानयोश्च पञ्चमी वक्तव्ये" तिवार्तिकेन सिद्धा कुतो भवानिति प्रश्ने प्रतिछाननगरादित्युत्तरे चागत इति पदाध्या हारेण पञ्चमौ विभागार्थिका बोध्येति । "जुगुप्साविरामप्रमादार्थानामुपसंख्यानमिति” वार्तिकं जुगुप्सादिविषये ऽपादानत्वं ज्ञापयति । पापाज्जुगुप्सते विरमति वेत्त्यत्र गुपगंही नाम देषविशेषः विरमतेनिवृत्तियत्नोऽर्थः धर्मात्प्रमाद्यतीत्यत्र प्रमादेरनुद्वसंस्कारोऽर्थः सर्वत्र पञ्चम्या विषयत्वमर्थस्तथाच पापविषयकगोऽश्रयत्वं पापविषयकनित्त्याश्रयत्वं धर्मविषयकानुहुसंस्काराश्रयत्वं वाक्यार्थ दूति संप्रदायः । केचित्तु गुपगहाप्रयुक्तः प्रत्त्यभावोऽर्थः विरमतः करणानन्तरमकरणमर्थः प्रमाद्यतेः कर्तव्यतास्मरणाभावप्रयुक्तः प्रत्यभावोऽर्थः पञ्चम्यर्थो विषयत्वं ग
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy