SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ पञ्चमीविभक्तिविचारः। रातोनित्यादावपि पञ्चम्यर्थो विभागो जनकतया अरातिकर्मण्येवान्वेति स्थाल्या अोदनमुद्धरतीत्यादावुद्धरतध्वंदेशसंयोगानुकूल कर्मानुकूलो व्यापारोऽर्थः ऊध्वदेशस्य कर्मणो धातुनाऽभिधानात् नास्य हिकर्मकत्त्वमिति पञ्चम्या विभागोऽर्थः स चोर्ध्व देशसंयोगजनके ओदनकर्मण्यन्वेति मन्दुराभ्यो हयावथे युनतीत्यत्र पार्थिवद्रव्यसंयोगानुकूल कर्मानुकूलवयापारो युजेरर्थ: पार्थिवस्य कर्मणो धातुना ऽभिधानात् नास्य हिकर्मकत्वमिति अत्रापि पञ्चम्यर्थो विभागो जनकतया पार्थिवसंयोगजनके हयकर्मण्यन्वेति विभागार्थकधातुयोगे पञ्चमौ यथा रक्षात् विभजते पर्व वायुरस्थो विभजते मांसं कौणप इत्यत्र विभजतेः पर्थिवद्रव्यविभागानुकूलकर्मानुकूलव्यापारोऽर्थः विभागफलवतः पार्थिवस्य कमणो धातुनाऽभिधानान्नास्य हिकर्मकत्वमिति पार्थिवविशेषणात् जले जलाहा विभजत इति न प्रयोगः पार्थिवविभागानुकूल कर्मस्वरूपफलवत्त्वात् पत्रमांसयोः कमंत्वमिति अत्र पञ्चम्यर्थोऽनुयोगित्वस्वरूपमवधित्वं निरूपकतयाऽनुयोगितानिरूपकत्वस्वरूपमवधिमत्त्वं वा खरूपेण संबन्धेन पार्थिवविभागऽन्वेति वृक्षात्पुष्पं चि. नोतीत्यत्र प्रतियोग्युत्पत्तिहितीयक्षणोत्पन्नसंयोगप्रतिइन्द्री विभागः कर्मवद्यापारश्चिनोतरर्थः गोभ्यः पयांसि दोग्धोत्यत्र दुहेरुत एवार्थ: अत्रापि पञ्चम्यर्थोऽवधित्वमवधिमत्त्वं वा विभागेऽन्वेति । न च चिनोते हेच विभागाविवक्षायामत्र विभागार्थिका पञ्चमौतिवाच्यम् । संयोगार्थकधातुयोग एव पञ्चच्या विभागार्थकत्वादन्य
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy