________________
विभक्त्यर्थनिर्णये ।
३३३
रोहति वेत्यादावधिपूर्वकस्याङ्पूर्वकस्य च रोहतेरूर्ध्वदिगवच्छिन्नसंयोगफलको व्यापारोऽर्थः जलादुद्गच्छति उनमज्जति वा पद्ममित्यादावुत्पूर्वकस्य गच्छते मंज्ज तेश्च জवर्ध्वदेशसंयोगफलको व्यापारोऽर्थः । पल्पङ्गादुपविशति पौठे इत्यादावुपविशतेः स्फिग्भूमंयोगस्य स्फिङमृर्तसंयोगस्य वाऽनुकूलो व्यापारोऽर्थः यदि जलेषूपविष्टो योगी न निमज्जतीति प्रयोगस्तदा स्फिङ्मूर्तसंयोगः फलतया बोध्यः ऊर्ध्व देशादिकर्मणो धात्वर्थान्तर्भावात् धात्वर्थान्तर्भूतकर्मकत्वादङ्गच्छत्यादीनामकर्मकत्वमिति पञ्चमौनां दर्शितेषु प्रयोगेषु विभागोऽर्थः स च जनकतया व्यापारेऽन्वेति ग्रामादजां वनं नयति विपणेः पण्यभारं गृहं वहतीत्यादौ नयतेः प्रेरकदेशावधिक प्रेर्यदेशत्तिपरत्वनिरूपितापरत्वसमानाधिकरणः संयोगः कर्मव्यापारश्चार्थः आङ्पूर्वकस्य नयतेरर्थे तादृशापरस्वसमानाधिकरणं एव संयोगो निविशतेर्वहतेश्च संयोग श्रधेयकर्म आधारकर्मखरूपो व्यापारश्चार्थः वणिग्गृहात् कनकं स्वगृहं हरति तस्कर इत्यत्र हरतेः संयोगः 'कर्म व्यापारश्चार्थः वृक्षाच्छाखां भूमिं कर्षतौत्यत्व कृषः कर्षक देशावधिककर्षणौय देशष्टत्तिपरत्व निरूपितापरवासमानाधिकरणः संयोगः कर्मव्यापारश्चार्थस्तादृशापरत्व समानाधिकरणः संयोग आङपूर्वकस्य कृषेरर्थे निविशते पञ्चमीनां विभागोऽर्थः स च जनकतया संयोग-जनके अजाकर्मणि भारकर्मणि कनककमैणि शाखा कर्मण्यन्वेति न तु कर्तृ व्यापारे ग्रामवर्तिनाऽपि ताडनादिना श्रनादन नयनादिति नगराहनं गमयत्व