________________
विभक्त्यर्थनिर्णये ।
३११
यो बेरित्यादौ मन्त्राणां करात्वार्थिका तृतीया तथा च नमः पदार्थकदेशे मन्त्रकरणकत्यागे उद्देश्यकत्वं संप्रदानत्वं प्रौतिरिति यावत् चतुथीर्थो जनकतयाऽन्वेति शिवप्रौतिजनक मन्त्र करक त्यागकर्म पुष्पमित्ययन्वयबो - धः । भवति च शिवाय नम इति वाक्यं मन्त्रः चतुर्थ - न्तपदघटितनमोऽन्तवाक्यस्य मन्त्रत्व परिभाषणात् ईदृशवाक्यरूपमन्त्रस्य देवताद्देश्य त्याग एव दर्शितकरणत्वं न तु ब्राह्मणाद्युद्देश्यत्याग इति ब्राह्मणाय गौर्नम इति वाक्यमप्रमाणमेव यत्र तु ब्राह्मणस्य दैवतत्वविवक्षा तत्र दानाङ्गब्राह्मणपूजनादौ पुष्पं ब्राह्मणाय नम इति वाक्यं प्रमाणमेव प्रयुज्यते मन्त्रवाक्ये शिवादीनां देवतात्वं पुनरर्थगम्यं न तु श्रौतं श्रौतं तु ऐन्द्रं दधौत्यादी तहितेन हि चतुर्थ्यन्तकरणकत्याग कर्माभिधीयते तद्दधनि तादात्म्येनाग्वेति तदेकदेशे चतुर्थ्यन्तपदे प्रकृत्यर्थस्य श्वरूपपरेन्द्रपदार्थेन्द्र शब्दस्य तादात्म्येनान्वयः यदि पुनरिन्द्रश्चेतनो देवता तदेन्द्रपदार्थ इन्द्रः प्रतिपाद्य पतितिपादकभाव संसर्गेण चतुर्थन्तेऽन्वेति भवतु वेन्द्रप्रतिपादकमिन्द्रपदमेवेन्द्रपदार्थतादात्म्यमेव चतुर्थप्रन्ते पदे भासते अत एव शक्राय स्वाहेत्यादिप्रक्षेपवाक्यमश्रौतं यदग्नये च प्रजापतये जुहोतीत्यादावग्निष्टत्त्य द्देश्यताको हामश्च श्रौतस्तत्र चतुर्थीन्ताग्निपदकरणकत्वं न्यायावगम्यमत एवं तहितापेक्षया चतुर्थी दुर्बला साचाद्देवताश्रुत्यभावात् । यदाहुः ।
तहितेन चत्वा मन्त्रलिङ्गेन वा पुनः । देवतात्वश्श्रुतिस्तव दुर्बलं तु परम्परम् ॥