________________
चतुर्थीविभक्तिविचारः। हितशब्दार्थः स्वत्तिदुःखाभावनिहप्यत्वं साधनान्वय्यामयाविनः संबन्धश्चतुयर्थः पूर्ववदन्वयबोध: आमथावित्तिदुःखाभावसाधनत्वस्य हितेऽवगमश्च "चतुर्थी चाशिष्यायध्यमट्रभद्र कुशल सुखार्थहिते"रिति सुवेणाशंसाविषयहितयोगे षया सह वैकल्पिक्याश्चतुर्थ्या विधानेऽपि आशंसाविरहेऽपि चतुर्थीविधायकतया हितयोगे चेतिवाति कस्य न वैयामिति । नम:शब्दादियोगे चतुर्थों ज्ञापयति । " नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च" इति सूर्य नम:स्वस्तिस्वाहास्वधाऽलंबषडित्येतैः शब्दयोगे चतुर्थी भवतीत्यर्थकं पुष्यं शिवाय नमः इत्यत्न दानकर्म नमःपदार्थः चतुर्थ्याः संप्रदानत्व. मर्थ: संप्रदानत्वं तु प्रीतिरेव प्रीतिस्तु जनकतया दानेइन्वेति शिवप्रीतिजनकदानकर्म पुष्यमित्यन्वयबोधः । ब्राह्मणाय गौनम इति वाक्यं प्रमाणमपि विहितवाक्यस्वाभावेन न प्रयुज्यते।
नामगोत्रे समुच्चार्य सम्यक्शतावितो ददत् । संकीयं देशकालादि तुम्थं मंप्रददे इति ॥ इत्याप्रवचनेन संप्रदद इत्यत्तस्यैव वाक्यस्य दानवाक्यखेन विधानात् । ननु ब्राह्मणादिसंप्रदानके दाने नमइत्यन्तवाक्यस्य विहितत्वाभावेना प्रयोगेऽपि प्रोत्यादिना दाने मित्राय गौनम इत्यादिवाक्यप्रयोगः स्यादिति चेन्न । मन्त्रकरण कत्यागकर्मणो नमःपदार्थत्वात् प्रौत्यादिना दाने मन्त्रकरण कत्वाभावात् वैधे हि कर्मणि मन्त्राणां करणात्वं तच्च त्यागादिवैधकर्मजन्यं परमापूर्व प्रधानापूर्व वा प्रत्यङ्गापूर्वहारा जनकत्वमत एव जुहुयाहार