________________
२५४
तृतीयाविभक्तिविचारः ।
तगृहा इत्यत्र काकसंबन्धिनो देवदत्तगृहा इत्यन्वयबोधः प्रमेयत्वादेरव्यावर्तकत्वादुपलक्षणत्वमपि न सम्भवतीति प्रमेयत्वेन घट इति न प्रयोगः अत एव प्रकारो विविध इत्यव प्रकारपदं व्यावर्तकपरतया मिश्रव्र्याख्यातं यत्तु पशुना रुद्रं यजेतेत्यत्र पशुगत मेकत्वं विशेषणां ग्रहं संमात्यव ग्रहगत मेकत्वमुपलक्षणमिति छान्दसानां व्यवहारः स च विशिष्टान्वयनिबन्धन: पशुनेत्यादौ तृतीयार्थ कर्मत्वे पशोरेकत्वविशिष्टस्यान्वयः यथा चैकत्ववैशिष्ट्यं पशौ तथोपपादितं वचनार्थविवरणे ग्रहमित्यादावेकत्वविशिष्टस्य ग्रहस्य संमार्गकर्मत्वेनान्वय इति विशिष्टान्वये पशोरेकत्वावच्छिन्नप्रतियोगिताकः संसर्गो भामत इत्येकः पचः । एकत्वे पशौच प्रकारता पर्याप्तेति द्वितीयः । एकत्वावच्छिन्ना पशु प्रकारताऽथ वा पशुविशेष्यतया कर्मतादिविशे ष्यतया च साचात्परम्परासंबन्ध हयावच्छिन्न मेक मे वैकत्वप्रकारत्वं निरूप्यत इति तृतीयः । तथा चेदृशविशिष्टविषयतामापन्नो विशेषणमनापन्न उपलक्षणमिति । अत एव मणावुद्देश्यान्वयप्रतियोगो धर्मो विशेषणं तदन्यदुपलक्षणमिति सिद्धान्तपर्यवसानं काकवन्तो देवदत्तग्रहा दूत्यत्र उद्देश्याया देवदत्तस्वत्वशून्य गृहग्रावृत्त रन्वयितावच्छेदकत्वं काकस्य न सम्भवतीति काको न विशेषणं यदि चाकाकवनावृत्तिरुद्देश्या तदा विशेषणमेव । एवं ग्रहमित्यादावेकत्वविशिष्टग्रह कर्मत्वस्य संमार्गेऽन्वयो नोद्देश्यः किं तु प्रस्तुत सकलग्रह कर्मत्वस्येत्ये कत्वं न विशेषणम् । एवमुक्तविशेषणं कचित्प्रमेयत्वस्यापि प्रमेय