SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । २५५ बूति प्रमेयं जानातीत्यत्र प्रमेयत्वविशिष्टकर्मत्वस्य ज्ञानेऽन्वयादन्यथा प्रमेय इति ज्ञानाभेदान्वयानुपपत्तेरत एव न हि प्रमेयत्वविशिष्टं प्रमेयपदशकयमित्यव प्रमेयत्वं न विशेषणं प्रमेयत्वस्या शक्यत्वापत्तरिति मिश्रमक्तम् । यदा दण्डविशिष्टपुरुवस्यान्वयो न विवक्षितस्तदा दण्डो न विशेषणं किं तूपलक्षणमत एव दण्डेन पुरुषमानयेत्यादिः प्रयोग इतीदृशोपलक्षणे वस्तुभूते प्रकृत्यर्थे सति संबन्धमात्रार्थिका तृतीया भवतीत्याहुः । ननु तृतीयायाः संबन्धमावार्थकत्वे प्रमेयत्वेन द्रवात्वेन वा पुरुषमानयेत्यादिकः कुतो न प्रयोग इति चेन्न सएव हि संबन्धस्तृतीयार्थी य उद्देश्यान्वयप्रतियोगी भ वति अन्यथा उपलक्षयतृतीयान्तप्रयोगस्य वैयर्थ्यापत्तेः प्रमेयत्वादेस्तु न तादृशः संबन्धः पुरुषादाविति तव प्रमेयत्वादिकं नोपलक्षणमिति काकेन देवदत्तगृहा इत्यव काकस्य स्वप्रयोज्य संस्थानविशेष उत्तत्वं संबन्धस्तृतौयार्थस्तस्य देवदत्तत्वशून्यगृह वावृत्ते रद्द - श्या या अन्वयितावच्छेदकत्वात् अत एव काकपदेनोपस्थाप्यः काक इव तत्संबन्धस्तु मतुपा बोधितः काककारित संस्थानविशेष इति मिश्रैरुक्तं जटाभिस्तापस इत्यंत्र जटानां स्वप्रयोजक केशा संयमप्रयोजकव्रतवत्वं संबन्धस्तृतीयार्थः व्रतस्य केशासंयम प्रयोजकत्वं तु केशसंयमस्य निषिद्धतया केशसंयमेन कर्तव्यजपादिकर्मणः कालातिपातशङ्कया यदि च संयतकेशोऽपि तापसस्तदा केशसंयमादिस्तस्य न कर्तव्यजपादिविरोधोति तदा स्वप्रयोजकोभूताभावप्रतियोगि केशसंयमाप्रयोजितावे
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy