________________
२१५
विभक्त्यर्थनिर्णये। कारत्वस्य निरूपकतासंसर्गेणान्वयो न सम्भवति सुबर्थयोः परस्परान्दयस्थाव्युत्पन्नत्वात् तृतीयार्थप्रकारत्वस्य धात्वर्थे ज्ञानादावेवान्वयात् प्रकारतानिरूपितविशेध्यताकत्वस्य मानान्तरादेवलाभ इति । एवं लक्षणस्वरूपप्रामाण्यादिभिरनुमाने निरूपणौये इत्यादौ शाब्दबोधस्तदनुकूलव्यापारश्च निरूपेरथः कर्मकृतस्तु विश - प्यो विषयो वाऽर्थः कर्मप्रत्ययस्थले व्यापारस्य विशेषणतया कर्मप्रत्ययार्थोऽन्वयः प्रकृते कर्मकदर्थंक देशऽपि विशेष्यत्वे विषयत्व वा शाब्दबोधस्य फलस्य विशेषणतयान्वयो व्युत्पत्तिवैविल्यात् तथा चान तृतीयार्थप्रकारत्वस्य लक्षणादिविश षितस्य शाब्दबोधेन्वयः प्रकारतानिरूपितविशेष्यताकत्व लाभ: पूर्ववदेव कृदथै कदेश विशष्यत्व विषयत्वे वा तृतीयार्थ प्रकारत्वस्य निरूपकत्वेन संसर्गेणान्वय इति वदन्ति । तत्र कदथैकदेश धात्वतिरिक्तार्थ स्यान्वयो न व्युत्पत्तिसिद्ध इत्यादिक चिन्तनीयम् । के चित्त फलविशिष्टं कर्म कदर्थः फलस्य देधा शाब्दबोधविषयत्व तृतीयार्थ प्रकारत्वस्य कर्मकदक देश फलेऽन्वयस्तथा चात्र शाब्दबोधानुकूलव्यापारप्रयोज्यस्य लक्षणादिप्रकारकशाब्दबोधस्य विशेष्येऽनुमान इति शान्दवोध इति वदन्ति । तद पि चिन्त्य फलस्य वेधा शाब्दबोधविषयत्वस्याप्रामाणिकत्वात् व्युत्पत्ति चिल्य णैव व्यापारविशेषणकफलविशेष्यकशाब्दबोधसम्भवेनान्वयोपपत्तिसम्भवात् फलादेः कर्मप्रत्ययार्थत्वासम्भवात् कृदथैकदेश धात्वतिरिक्तार्थान्वयस्थाव्युत्पन्नत्वाच्च । परिच्छिन्नत्वमपि क चित्तती