________________
२१४
तृतीयाविभक्तिविचारः । देशव्यापारस्य जन्यत्वेन संसर्गेण धात्वर्थगमनेऽन्वयाकरणे तृतीयेति वाच्यं करणत्वविवक्षायामिष्टत्वात् अविवक्षणे तु आधारस्याधिकरणसंजया तत्कार्येण वा करणसंज्ञायास्तत्कार्यस्य वा वाधात् करणाधारकमेणामिति भाष्यात् । न चैवं ततीयार्थाधिकरणत्वस्य धात्वथेऽन्वयोपगमात् कारकत्वापत्तिरिति वाच्यं सर्वत्र धात्वर्थान्वयविरहात् नामार्थ नाप्यन्वयात् । अत एव शाखया कपिसंयोगी वृक्ष इत्यत्र श्वेतः खुरविषागाण्यामित्यत्र च ततीयाधियत्वस्य शाखाविशेषितस्य कपिसंयोगे खुरविषाणविशेषितस्य श्वेतरूपे सविशेषणे हौति न्यायेनान्वयात् । रजतत्वेन पुरोवर्तिनं जानातौच्छति करोति द्वेष्टि वेत्यादौ प्रकारत्वं तृतीयाथः तच्च धावथंफले हितीयार्थे वा विशेष्यत्वे निरूपकतासंसर्गेणान्वेतौति वदन्ति। तत्र घट इति घटघटत्वसमवायान् जानातीत्यादिप्रयोगेण विशेष्यत्वस्य न धात्वर्थत्वं न वा हितौयार्थत्व सम्भवति घट इति नियतार्थस्य धात्वर्थेज्ञानेऽभेदान्वयेन तादृशज्ञानविशेष्यत्वस्य घटत्वसमवाययोरसम्भवात् विषयत्वं फलतया धात्वर्थो न तु हितीयार्थो भगवान् जानातीत्यादावनुपपत्तेरित्यस्य प्रागावेदितत्वात् तथा च ततौयार्थ: प्रकारत्व रजतत्वादिप्रकृत्यर्थ विशेषितं धात्वर्थे फले विषयत्व व्यापार तानादौ वा निरूपकत्वं न प्रतियोगित्वेन वा संसर्गेणान्वेति रजतत्वप्रकारतानिरूपितपुरोवर्तिविशेष्यताकत्वमाक्षेपेण परिश षेण मनसा वा मानान्तरेणावगम्य. ते विशेष्यत्वस्य हितोया तापक्षेऽपि तत्र ततीयार्थप्र