________________
विभक्त्यर्थनिर्णये ।
२१३
यार्थस्य संसर्गीभृता प्रतियोगितैव प्रतियोगिनो ध्वंसपदार्थस्य नञर्थे संसर्गीभवति अथ वा अवच्छिन्नप्रतियोगिताकत्वं ततौयार्थः तच्च स्वरूपेण संबन्धेन नञर्थेऽन्वेति व्युत्पत्तिवैचित्य प्रतियोगिनोऽपि संसर्गीभवतौति वदन्ति । तृतौयार्थोऽवच्छिन्नत्वं संसर्गीभूत प्रतियोगिता विशेषणतया भासत इति स्वतन्त्राः । वस्तुतस्तु समवायेनेत्यादितृतीयान्त समभिव्याहारः समवायाद्यवच्छिन्नप्रतियोगिता कत्वसंसर्गेण प्रतियोगिनो ध्वंसादिशब्दार्थस्य नञर्थान्वयबोधे हेतुरित्येव रमणीयमिति । इयमेव गति: पटत्वेन घटो नास्ति शशौयत्वेन शृङ्गं नास्तीत्यादावपि बोध्या । क चिन्निरूपकत्वमपि तृतीयार्थः यथा धमस्य धमत्वेन वह्निव्याप्तिरित्यन निरूपकत्वंतृतीयार्थः तच्चाधेयतया प्रकृत्यर्थविशेषितं वह्निव्याप्तावन्वेति निरूपकत्वं तु व्यापकत्वलक्षणं घटकत्वमिति संप्रदाय: । अतिरिक्तमित्यन्ये । एवमङ्करेणानेकान्त इत्यव वह्नावयः पिण्डेन धूमव्यभिचार इत्यत्र च घटितत्वं व्याप्यत्वलचणमतिरिक्त वा निरूपकत्वं तृतीयार्थः तच्चानेकान्तपदार्थे व्यभिचारे धूमव्यभिचारे च प्रकृत्यर्थविशेषितमन्वेति । क्व चिद्देशिक संसर्गावच्छिन्न माधेयत्वं तृतीयार्थः यथा समेति विषमेोतीत्यादौ यदीयस कलावयवानां प्रत्येकं स्वसंयुक्त संयोगादिपरम्पराणामूर्ध्व दिगवच्छिन्नानां तुल्यत्वं स भूभागः समो देशस्तदितरोविषमस्तथा च कर्ट घटित दैशिकपरम्परा संसर्गावच्छिन्नमाधेयत्व' तृतीयार्थः तच्च प्रकृत्यर्थेन समेन विषमेण च देशेन विशेषितं धात्वर्थगमनेऽन्वति न चात्र समादि