________________
विभक्त्यर्थनिर्णये।
२०५ त्यर्थकेन सिद्धमात्मनेपदम् । श्राध्याने तु मात्रा मातरंवा संजानातीत्येव प्रमाणम् । के चितु आध्याने मातरंमातुर्वा सञ्जानातीत्येव साधु"अधीगर्थे”ति सूत्रेण विहितया षष्ट्या तृतीयाया बाधात् अत एव कृद्योगषट्या तृतीयाया बाध: पितुः संज्ञानमित्यादावित्याहुः । तन्न विचारसहं षष्टया ततीयाया बाधे हितौयाया अपि बाधापत्तेर्युक्तेस्तौल्यात् पितुः संज्ञानं संज्ञा वेत्यत्र त्तिकारमते कृद्योगे कर्मार्थकषष्ट्या कर्मप्रत्ययस्य वितौयातृतीयादेर्बाध इति नाव तृतीयादेः प्रसक्तिरिति । हुविकर्मण्यपि तृतीयां जोपयति"तृतीया च होश्छन्दसौ" ति सूत्र छन्दसि होर्तुवेः कर्मणि तृतीया स्याञ्चकाराद्द्वितीयाऽपौत्यर्थकं यवाग्वा जुहोति यवागं जुहोतोत्यादौजुह तेर्वन्हिसंयोगफलकखाहाकरणकप्रक्षेपोऽर्थस्तन वन्हि संयोगान्वय्याधेयत्वस्वरूपं कर्मत्वं तृतीयाहितीययोरर्थ: तथा च यवागूत्तिवन्हिसंयोगफलकखाहाकरणकप्रक्षेपकर्तत्वं वाक्यार्थः लोके तु तं जुहोतील्यादौ न तृतीयेति । "अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे ततीया स्यादिति दास्या संयच्छते कामुक इत्यत्र तृतीया अशिष्टो वेदनिषिद्धकर्ता, व्यवहार इति निमित्तसप्तमी तथा च वेदनिषिव्यवहारप्रयोजकञ्चेदाणोऽर्थस्तदा चतुर्थ्यर्थे तृतीया भवति अत एव दाणश्च सा चेञ्चतुर्थ्यथें" इत्यनुशामनेन सम्पूर्वकादाण आत्मनेपदं भवति यदि चतुर्थ्यर्थिकया तृतीयया योगो भवतीत्यर्थकेनात्मनेपदं साधयता संप्रदानत्वार्थिका तृतीयाऽपि साध्यते । अत्र वेदनिषिद्धव्यवहारप्रयोजकत्वं वेदनिषिद्धत्वं वा