________________
२०६
तृतीयाविभक्तिविचारः । पापानुगुणत्वं न धातोनं वा तृतीयाया अर्थ इति न शाब्दबुद्धिविषयः किं तु शाब्दानन्तरं मानान्तरगम्यं दाः वास्तु दानमर्थः तस्वरूपसत्यापानुगुणमिहापेक्षितमबैवात्मनेपदं साधु तृतीयायाः संप्रदानत्वमर्थ: दानसंप्रदानत्वयोः स्वरूपं चतुर्थीविवरणे वक्ष्यते एवं दासीसंप्रदानकदानकर्ता कामुक इति शाब्दबोध: पापाननुगणदानेतु भार्याय संयच्छतीति चतुर्थोपरौपदयोरिव साधुत्वमिति । फलोपहितार्थकधातुयोगे कालाध्वशब्दात्ततीयेति ज्ञापयितुम् । “अपवर्गेतृतीये"त्यनुशासनम् । अपवर्गे फलप्राप्तौ सत्यां कालाध्वशब्दाभ्यामत्यन्त संयोगेऽर्थे ततोया भवतीत्यर्थक अपवर्ग: फलं यदिच्छाप्रयोज्याचारविषयः क्रिया तत्फलं प्राप्तिस्तदुपधानं तथा च यत्र फलोपहिती धात्वर्थस्तत्वात्यन्तसंयोगार्थिका तृतीया अत्यन्तसंयोगः कालिकं दैशिकं वा व्यापकत्वं द्वितीया विवरणोक्तं स्मर्तव्यम् । एवमन्हा क्रोशेन वाऽनुवाको ऽधीत इत्यत्राध्ययनमुच्चारणमनुसंधानं वा धात्वर्थः दृढसंस्कारोपहितमध्ययनमिह धातुनोपस्थाप्यते तत्र धात्वर्थे ततौयार्थोऽत्यन्तसंयोगो ऽन्वेति तथा चाहापकस्य क्रोशव्यापकस्य वा दृढसंस्कारोपहिताध्ययनस्य कर्मानुवाक इति शाब्दबोधः । दैशिकव्यापकत्वं कर्तृघटितपरम्परासंसर्गावच्छिन्नमिह बोध्यमिति । यत्र फलोपहिता न क्रिया तत्र मासमधीतोऽपि नाम्यस्तो ऽनुवाक इति हितोयैव प्रमाणम् । अत्र फलानुपहितमेवाध्ययनादिकं धात्वर्थः अत्यन्तसंयोगमावं तृतीयार्थ: अपवर्गस्तु व्यञ्जनागम्यः दिवसेन भवानयुद्धे