________________
२०४
तृतीयाविभक्तिविचारः ।
पादकतया चकारः सार्थक इति वाच्यं क्वाचित्ककार्योपपादकत्वे बीजविरहेण विशेषेण कार्ययोपपादकतये वैच्छिक विकल्पार्थकस्य चशब्दस्य सार्थकत्वसम्भवात् । एवमक्षैरचान्वा दीव्यति मत्स्य इत्यत्र दीव्यते: क्रीडा सां तु सुखव्यापारोभयं सुखमेव वाऽर्थः तृतीयाहितीययोः पातस्वरूपो व्यापारोऽर्थः तथा चाचजन्यपातजन्यस्य सुखानुकूलव्यापारस्य सुखस्य वाऽनुकूलकृतिमान्मत्स्य इति शाब्दबोधः । न चाव धात्वर्थफले सुखे आधेयत्वस्वरूपं कर्मत्वं द्वितीया बोधयितुमौष्ठ सुखादावचाधेयत्वस्य बाधादिति द्वितीयाया अपि व्यापारोऽर्थः अत एव देवना अता इत्यत्र व्यापाराश्रयस्य करणस्य ल्युटाऽभिधानान्न व्यापारार्थिका द्वितीया । एवमक्षा दौव्यन्ते देवनौया वेत्यत्र तिङा व्यापारस्य तदाश्रयस्यानीयराऽभिधानान्न व्यापारार्थिका करणतृतीया " अनभिहित इति निषेधादिति । द्वितीयायाः करणत्वमिव तृतीयाया अपि कर्मत्वमर्थ इत्या वेदयितुं " संज्ञोऽन्यतरस्यां कर्मणौ ” ति सूत्रम् । सम्पूर्वस्य जानातेः कर्मणि तृतीया द्वितीय वा स्यादित्यर्थकं पिता पितरं वा संजानीत इत्यत्र संजानातेः संज्ञानमसाधारणधर्मेण ज्ञानमर्थस्तृतीयाद्दितौययोर्विषयतास्वरूपं कर्मत्वमर्थः अथ वाऽऽधेयत्वस्वरूप्रमेव कर्मत्वमिहाप्यर्थः विषयतायाः पूर्वोक्तय ुक्त्या धात्वर्थफलत्वावश्यकत्वात् तथा च पितृविषयताकं पितृवृत्तिविषयताकं वा ज्ञानं वाक्यार्थः सञ्ज्ञानीत इत्यव “संप्रतिभामनाध्याने" इत्यनुशासनेन संपूर्वकात् प्रतिपूकाच आत्मनेपदं भवति यद्याध्यानं कारणं नार्थ इ
99
ज्ञ