________________
१८८
द्वितीयाविभक्तिविचारः। लं तु कुतोऽध्यागच्छति कुतः पर्यागच्छति इत्यत्र गतिर्गतावितिसूत्रण विहितस्य गतावाङादी परतो गतेरध्यादेनिघातस्वरस्थाभावो गतिसंज्ञाबाधादिति । "सुः पूजायाम्” इति सूत्र पूजायां धात्वर्थे सुरुक्तसंज्ञः स्यादित्यर्थकमवापि निरर्थकत्वान्न द्वितीया संज्ञाफलं तु सुसितं शमोरित्यत्र षत्वाभाव उपसर्गसंज्ञाबाधादिति अतिरतिक्रमणे च” इति सूत्रमतिक्रमणे पूजायां चार्थे द्योत्येऽतिरक्तसंचम्स्यादित्यर्थक तत्संयोगासमानाधिकरणतत्संयोगध्वंसोऽतिक्रमणं सामानाधिकरण्यमेककालावच्छिन्नबोध्यं पूजा प्रौणनं तच्च प्रौतीच्छा तथा चातिपर्वतंसार्थ: अतिदेवान् कृष्ण इत्यत्वातिक्रमणं प्रौणनं च द्वितीयार्थस्तव तत्तत्ममर्गावच्छिन्नाधेयत्वेन सम्बन्धन प्रकृत्यर्थस्यान्बयोऽतिक्रमणं साथं प्रौगाने कष्णेऽन्वेति एवं पर्वतत्तिर्यः पर्वतसंयोगासमानाधिकरणः पर्वतसंयोगध्वंसस्तहान् सार्थ इति देवसमवेता या प्रौतौच्छा तविषयः कृष्ण इति चान्वयवोध: काशिकायां तु निपन्नेऽपि वस्तुनि क्रियाप्रत्तिरतिक्रमणम् अतिसिकमेव भवता प्रतिस्तुतं भवता पूजायाम् अतिसिद्धं भवता अतिस्तुतं भवता शोभनं कृतं भवतेत्युक्तं तदृशमध्यतिक्रमणंतद्योतकस्य पूजाद्योतकस्य चातेः कर्मप्रवचनीयतया तद्योगे द्वितीयाविनाकृतदर्शितप्रयोगे षत्वाभाव इत्येव हृदयं न तु पूर्वप्रदर्शितोदाहरणे द्वितीयायाम् असाधुत्वपरत्वमिति। "अपिः पदार्थसम्भावनाऽन्ववसर्गगर्दासमुच्चयेधु इति सर्व पदार्थादिषु द्योत्येषु अपिरक्तसंज्ञः स्यौदिव्यर्थक पदार्थ यथा सर्पिषोऽपि स्यात् इत्यत्र तिर्थस