________________
१८६ द्वितीयाविभक्तिविचारः । मधिके होने च द्योत्ये उपेति प्राक्सं स्यादित्यर्थक तथा चोपहरिं सुरा इत्यत्रापि हितौयाया होनत्वमर्थ: शेषं पूर्ववत् अधिकार्थे कर्मप्रवचनौययोगे सप्तमी वक्ष्यते। "लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः" इति सूर्व भागान्तेष्वर्थेषु द्योत्येषु वीप्साप्रयोगे च प्रत्यादयः प्राक्संज्ञकाः स्युरित्यर्थक तथा च वृक्षं प्रति परि अनु वा द्योतते विद्युदित्यव लक्षणं द्वितीयार्थस्तच्च धात्वर्थेन निरूपितं जनकत्वं तनिष्ठजन्यत्वं वा द्योतनं च तेजोविषयकं चाक्षुषं तादृशः साक्षात्कारो वा तत्र वृक्षहेतुकत्वमन्वेति तत्र वृक्षादेहेतुत्वं चक्षुरादिसन्निकर्षाणांसान्निध्येन विद्युदाद्याभिमुख्यहारा कथं चित्प्रयोजकत्वस्वरूपं बोध्यं तिर्थो विषयत्वं तथा च वृक्षप्रयोज्यस्य तेजोविषयकस्य चाक्षुषस्य साक्षात्कारस्य वा विषयो विद्युदित्यन्वयबोधः धात्वर्थनिरूपितहेतुताविशेषस्य प्रकते प्रतिपादनात् हेतुतासामान्यप्रतिपादकस्य अनुर्लक्षणे - त्यनुशासनस्य न वैयर्थ्यमतो दण्डमनु घट इत्यादी दण्डादिहेतुकत्वं घटादौ प्रतीयते अत एव परिपन्य च तिष्ठतौतिनिर्देशस्तत्र परिपन्थशब्दम्य निपात्यमानत्वेऽपि परियोगावैकल्याद् द्वितीया तदर्थो हेतुत्वविशेषो धात्वर्थस्थितावन्तीति । इत्थंभावो वास्तवसंबन्धो द्वितीयार्थः म च क्व चिहिषयिविषयभावः यथा विष्णुं प्रति परि अनु वा भक्त इत्यत्र दृष्टत्वेन इष्टसाधनत्वेन पूज्यत्वेन वा ज्ञानं भक्तिः दृष्टमासुभिकं बोध्यं तत्र द्वितीयार्थी विषयित्वमन्वेति तथा च विष्णुविषयकष्टसाधनत्वादिप्रकारकज्ञानवानित्यन्वयवोधः क चिदुद्देश्योह श्यिभाव