________________
विभत्त्यर्थनिर्णये। भ्यां व्युत्पत्तिवैचित्र्यणान्वयोपगमाद् धनसामान्याभावलाभ: अभावयोः प्रयोज्यप्रयोजकभावो योगक्षेमसाधीरण: संसर्गस्तथा च धनसामान्याभावप्रयुक्तः सुखसामान्याभाव इत्यन्वयबोधः गीतश्रवणजन्मन ऐहिकस्य जपादिप्रयोज्यस्यामुष्मिकस्य च सुखस्य धनं विनाऽपि सम्भव इति कथं सुखसामान्याभावो धनसामान्याभावप्रयुक्त इति यदि तदा धनमन्तरेण न दानं यागो वेत्युदाहरणं बोध्यमिति क चिदन्तराशब्दस्याप्यभावोऽर्थः यथा अध्ययनमन्तरा न पाण्डित्यमिति । “अनुर्लक्षणे" इति सूत्रं लक्षणे द्योत्ये अनुः कर्मप्रवचनीयसंज्ञः स्यादित्यर्थकं"कर्मप्रवचनौययुक्त द्वितीया" इत्यनुशासनं कर्मप्रवचनीय योगे द्वितीया भवतीत्यर्थक लक्षणं हेतुत्वं तथा च जपमनु प्रावर्षदित्यत्र हितीयाया हेतुत्वं जन्यत्वमर्थः प्रवर्षगोऽन्वेति अनुशब्दस्तु समभिव्याहारस्वरूपाकाहाप्रयोजकी निरर्थक एव न चानुशब्दस्यैव हेतुत्वमर्थो द्वितीया निरथिका तथा विति वाच्यम् । द्वितीयाया निरर्थकत्वस्य काप्यदृष्टत्वात् दर्शितानुशासनहयस्य जपेन प्रावर्षदिति हेतुटतीयाबाधकत्वाच्च । “तीयार्थे" इत्यनुशासनं तृतीयाथै साहित्ये द्योत्ये अनुः कर्मप्रवचनौयसंतः स्थादित्यर्थक तथा च नदीमन्ववसिता सेनेत्यत्व हितीयार्थः साहित्यमन्ववसितार्येऽन्वेति एवं नद्या सह संबद्धेत्यन्वयबोधः । “होने” इति सूत्रं होने द्योत्ये अनुः प्राकसंत: स्यादित्यर्थक तथा चानु हरिं सुरा इत्यत्र होनत्वं द्वितीयार्थः सुरेष्वन्वति होनत्वमपकर्षोऽवन्ध्येच्छत्वादिविरहखरूपो बोध्यः । “उपोऽधिकेच" । इति सूत्र